________________
१आदिपर्व-११सर्गः]
बालभारतम् ।
१११
एकादशः सर्गः। कृतवसतिरजस्रं साधुहृत्पञ्जरान्तः
किमपि किमपि वक्ता सत्पुराणोक्तिसूक्तीः । भवतु भुवनचित्तप्रीतये ज्ञानलक्ष्मी
कुतुकशुकविहंगः सत्यवत्यङ्गजन्मा ॥ १ ॥ कुसुमशरशरालीसंपदा दंपतीनां
सुरभिणि सुरतान्तस्नेहनीरे निमज्जन् । अथ मुरुमथनस्य प्रीतये.मन्दचारो
ऽजनि रजनिविरामारम्भशंसी समीरः ॥ २ ॥ वन रजनि सरोज स्मेरतामेहि मौनं
कुवलयकलया द्राक्चापलं मुञ्च वार्धे । परिहर दिवमिन्दो कोक संश्लिष्य कोकी
मिति जगति मृदङ्गोऽताडि सूर्याज्ञयैव ॥ ३ ॥ अविरतरतलीला खेदभाजां मिथोऽपि
श्लथतरपरिरम्भस्यूतसर्वाङ्गकानाम् । अवसरममृतोर्मिप्लावितानामिवान्त
मुकुलितनयनत्वात्प्रेयसां प्राप निद्रा ॥ ४ ॥ स्वमनसि परमात्मज्योतिरुज्जीव्य सार
स्वतलय इव मूर्ते ब्राह्मसंज्ञे मुहूर्ते । किल निजनिजशिल्पं शिल्पिनः कल्पयन्तः
किमपि किमपि जन्मापूर्वमुन्मेषमापुः ॥ ५ ॥ दधिमथनविलोलल्लोलहग्वेणिदम्भा__दयमदयमनङ्गो विश्वविश्वकजेता । भवपरिभवकोपत्यक्तबाणः कृपाण
श्रममिव दिवसादौ व्यक्तशक्तिय॑नक्ति ॥ ६ ॥ १. 'गुरुमिथुनस्य. ग. २. 'मूर्त-' ग.
Aho! Shrutgyanam