________________
१ आदिपर्व - १० सर्गः ]
बालभारतम् ।
स्पर्शशालिनि विवृद्धसुगन्धिश्वासमालिनि विशेषितकान्तौ । ओष्ठपानजुषि सन्मणिताक्षैः प्रीतिराप्यत मिथो युवयुग्मे ॥ ६५ ॥ लोलता भृशमधारि वधूनां यत्करैरधरखण्डिनि कान्ते । लब्धतादृशरसं रतमेतत्तेन पल्लवितमेव विरेजे ॥ ६६ ॥ रागवाननुलवं नलिनाक्ष्या मञ्जु चक्षुरधरं च चुचुम्ब । ते परस्परपरिस्फुरदीयसंभ्रमादिव धृतारुणभावे ॥ ६७ ॥ बाहुमूलकृतबाढनखाङ्कः खण्डिताधरदलो यदरज्यत् । तद्वतेषु सुदृशश्चलकाञ्चीनूपुरादिभिरदूयत कान्तः ॥ ६८ ॥ छिन्नहारमणिभिः क्षितिपातादुच्छलद्भिरभितः सुरतेषु । नृत्यते स्म कृतकृत्यमनोभूपुष्पमार्गणगणैरिव यूनाम् ॥ ६९ ॥ सुश्रुते रहसि वाद्यविचित्रे मेखलावलयनूपुरनादे | गीतिरीतिषु पुनर्मणितेषु प्रेयसां पटु ननर्त मनोभूः ॥ ७० ॥ दुर्वहस्तननितम्ब भरेयं मा स्म खेदि रभसेन रतानाम् । मूर्ध्नि सुभ्रुवमिति प्रियभालस्वेदवारिभिरषिञ्चदनङ्गः ॥ ७१ ॥ धाष्टर्चकर्मविकसन्मदलज्जाः सज्जधैर्यकुपितस्मरलोलाः । इत्यभीक्ष्णमहरन्नधरत्वं कामुकस्य रतिकेलिषु कान्ताः ॥ ७२ ॥ यद्यदेहत हृदैव हृदीशस्तत्तदप्रथितमेव वितेने । तादृशप्रसरतुष्टमनोभूदत्तदिव्यनयनेव नताङ्गी ॥ ७३ ॥ स्वेदवारि कुचकुङ्कुममिश्रं कामुकोरसि रतश्रमसूतम् । कामिनी भृशममान्तमिवान्तर्मूर्तिमन्तमनुरागमवर्षत् ॥ ७४ ॥ न्यङ्मुखेन पुरुषायितरङ्गत्कामिनी कुचयुगेन शुचेव । दूरितप्रियहृदा वितताभिः स्वेदबिन्दुपटलीभिररोदि ॥ ७५ ॥ मुक्तदन्तमुखचुम्बनलीलादृग्भिरेव दृश एव पिबन्तः । रागिणो रतभरेण मिथोऽन्तः सीत्कृतैररसयन्रससारम् ॥ ७६ ॥ स्मितरुचि रुदितार्द्रं सान्द्रसीत्कारमन्द्रं करुणवचनमूचुर्मन्दमित्यङ्गना यत् ।
Aho ! Shrutgyanam
१०९