________________
१आदिपर्व-१०सर्गः)
बालभारतम् ।
१०६
अन्तरन्तरधरं च सुरां च प्रेयसां रसयतामनुवेलम् । एतयोः किमु विदंशपदेऽभूत्यतां च किमवाप न विद्मः ॥ १४ ॥ कामिनि प्रियतमाधरपानारम्भकारिणि निजावसरेऽपि । कोपिनीव मदिरारुणकान्तिः कम्पमाप विततालिरयेण ॥ १५ ॥ प्रेयसी प्रति धवेऽर्धनिपीतसीधुदातरि दधौ क्रुधमन्या । संभ्रमास्तचषके मुदिताभून्मङ्घ वक्रमधुरे च विलक्षा ॥ १६ ॥ रागवृद्धिभिदुरं प्रमदानामन्तराशु मदिरा विनिविश्य । एकमद्भुतमुदच्छिददुच्चैरध्यरोपयदथो मदमन्यम् ॥ १७ ॥ अन्धतामधित मानतमोभिर्यो मनःसु सुदृशामपि चैव । वीक्षितुं प्रियजनं किल रागो रागिणां प्रसृमरे मरदीपे ॥ १८ ॥ घूर्णमानवपुषां सुमुखीनां रत्नकुण्डलरुचिद्विगुणाभिः । स्फीतरागरसवीचिनिभाभिर्लोललोचनविभाभिरभासि ॥ १९ ॥ भूषणं भृशमनन्यमनन्यं योषितामजनि यन्मद एव । चारुचीवरवराभरणानि भ्रंशभाजि जगृहुर्न तदेताः ॥ २० ॥ निनिमित्तगमनोत्थितभाजामधल्पितनिरर्थकवाचाम् । पुष्पचापहृतमानधनानां वल्गतु ग्रहिलता महिलानाम् ॥ २१ ॥ मद्यपानमदम तनूनां प्रेयसि प्रसृमरे परिरब्धुम् । निर्मदोऽजनि मदः प्रमदानां ह्रीमतीव हृदि संकुचिता हीः ॥ २२ ॥ कोऽपि भीरुमपरां परिरम्भश्रद्धया मधुरसैर्मदयित्वा । उद्यतद्विगुणभावभृतं तामेव मन्मथवशेन निषेवे ॥ २३ ॥ काप्यनिवृतमना मधु पीत्वा कृत्रिमं मदमधत्त मृगाक्षी। वीक्ष्य च प्रियतमं स्वमनस्कं संभ्रमादकृतकं मदमाप ॥ २४ ॥ वीक्ष्य पाटलदृशं प्रियमेष क्रोधवानिति धिया विनिमन्ती । अग्रतः स्मिततदङ्घिनखान्तर्लम्बमाननिजबिम्बविलोकात् ॥ २५ ॥
१. 'विदुरम्' क-ख-ग. २. 'मनोज्ञमनोज्ञम्' ख.
१४
Aho! Shrutgyanam