________________
१.०४.
काव्यमाला ।
दशमः सर्गः ।
दुष्ट कर्मफणिदष्टजनालीदोषमोषकृतयेऽङ्कमिषेण ।
यः सुधात्विषि विवेश सुधार्थं स श्रिये भवतु भारतकारः ॥ १ ॥ जातमन्मथमथो मदिराक्षीलोचनानि परिचुम्ब्य युवानः । तत्क्षणाप्तरुचयो मधुरासु स्वं मनो विदधिरे मदिरा ॥ २ ॥ स्त्रीजने धृतमदे मदनाज्ञापालनाक्रमणनूतनदूत्या । हुंकृतं कृतमहुंकृतिहेलालोलयेव सुरयालिरवेण ॥ ३ ॥ हालयालिकुलकूजितगीतैरुत्सवं नवमिव प्रथयन्त्या । आददे मदभिदे प्रमदानां कामदेवपृतनाधिपतित्वम् ॥ ४ ॥ लोलपट्पदकनीनिकमक्ष्णा शोणतां कलयताब्जमयेन । वीक्षिता इव रुषा मदिराभिर्भीरवो मुमुचिरे मदमन्तः ॥ ५ ॥ काप्युदस्य कुसुमानि रसेन प्रेक्ष्य विम्बि च मुखं मधुपात्रे | भ्रान्तिभृत्यपि घवेऽम्बुजबुद्ध्या गृह्णती यदि हृदैव ललज्जे ॥ ६ ॥ सीधुसंनिहितवाससरोजं नो तथा रसनलोभनमासीत् । रागिणां निभृतरागभराणां बिम्बितैरपि यथा मुखपद्मैः ॥ ७ ॥ बिम्बनाद्विधुरियाय सुरायां वासवारिजमिवाशु विजेतुम् । किं जडः सहजवैरवशान्धो नाङ्गनामुखमिहैव ददर्श ॥ ८ ॥ माधुरीं दधतु निर्भरमासामाननाब्जकलनाभिरिमानि । इत्युपायिभिरपायिषत प्राग्वल्लभैर्नवमधूनि मृगाक्ष्यः ॥ ९ ॥ अर्धपीतमबलाभिरलाभि प्रेयसा मधु नदन्मदनं यत् । तोषतोऽतिरसदं रसनायां तन्मुखार्पितमपीति न पीतम् ॥ १० ॥ प्रेमतः खलु तदाजनि यूनामैक्यमेव मनसोरिव तन्वोः । आस्यसीधुमिषरागरसोर्मिक्रीडनान्यत इतोऽपि यदासन् ॥ ११ ॥ प्रेम निष्कपटमस्ति न यूनां गृह्णतां सुगुणमल्पगुणेन । स्वं प्रदाय मुखसीधु मिथस्ते द्राक्पपुर्यदधरं दयितानाम् ॥ १२ ॥ यद्ददे मधुरसाय सुधाजिन्माधुरी मृगदृशामधरेण । मञ्जिमा तदमुनापि हि तासामाननेषु विदधे विधुजेता ॥ १३ ॥
Aho ! Shrutgyanam