________________
१ आदिपर्व - ९ सर्गः ]
बालभारतम् ।
काचिदेत्य परिरम्भिणि प्रिये मानिनी प्रसृतपाणिनीरजा । कोपनैव लसदनुकम्पना स्पष्टतां न खलु मानमानयत् ॥ १०० ॥ कापि चाटु परिरम्भणैः प्रियं छेकमेकनिपुणापि नापृणोत् । कोपगोपनकलासु कृत्रिमं भावमक्षिणि विधातुमक्षमा ॥ १०१ ॥ संमुखोत्थितिकृतो नतभ्रुवः शुभ्रभासि मनसि स्मरः स्फुरन् । अग्रमागतवतो हृदीशितुर्देहबिम्बितमिव व्यराजत ॥ १०२॥ तथा स्वयं प्राणसमे समागते पुरः परस्याः प्रससार लोचनम् । कुशेशयं कर्णवतंसितं यथास्मितं तदेकावयवच्छविं दधौ ॥ १०३ ॥ प्रिये समायाति समुत्सुकायाः कस्याश्चिदभ्युत्थितिभासुरायाः । मुदेव सांराविणमङ्गकानि विभूषणानां रणितेन तेनुः ॥ १०४ ॥ आसां निधिरधिष्ठितमानं कान्तयावगणितो वलमानः । यासि तां पुनरिति द्रुतमेकः कृष्टमूर्धजमपात्यत तल्पे ॥ १०९ ॥ नयनं तमश्रुवारिभिर्बत सादेन शरीरसंभ्रमः । रसदर्शन संमुखोत्थितीर्मनसैव व्यदधन्प्रिये स्त्रियः ॥ १०६ ॥ एकासनेषु विविशुः सुदृशः प्रियैस्ताः पर्यस्तमानमुपमानवियोगरम्याः ।
एतानि वीक्ष्य मिथुनानि रतिप्रदत्त -
नेत्रोऽजनि स्मरविकारपरः स्मरोऽपि ॥ १०७ ॥
चञ्चञ्चन्द्ररुचिप्रपञ्चविगलन्मानान्धकारश्रियः
साटोपरमरवीर मार्गणगणस्त्रस्तत्रपासंपदः ।
१०३
एवं दंपतयस्तदा रतरसप्रारम्भसंरम्भित
प्रागल्भ्याय मदाय मध्यरसनस्वेच्छाभिरुत्सङ्गिताः ॥ १०८ ॥
इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के आदिपर्वणि चन्द्रोदयवर्णनो नाम नवमः सर्गः ॥
१. छेको विदग्धः २. 'बिम्बनम्' इति शोभनः पाठः.
Aho ! Shrutgyanam