________________
१०२
काव्यमाला |
मन्मथस्य किमु सूक्ष्मवेधतां वच्मि यन्मृगदृशामुरः शरैः । अप्रसृत्वरमृणालतन्तुनाप्याजघान कुचमध्यवर्त्मना ॥ ८७ ॥ प्रस्तुतागतहृदीशसंकथास्वेदवारि भरनिर्भरा बभुः । धौतमूर्तय इव स्त्रियोऽङ्गभूबाणपुष्पमकरदबिन्दुभिः ॥ ८८ ॥ पञ्चवाण इति मन्मथं जगुधिंग्जना यदयमङ्गनाजने । एकमेकमिह रोमकूपकश्रेणिकासु विशिखं निखातवान् ॥ ८९ ॥ ईशमानय यथा तथापि तं प्रेरयच्च वचसेति दूतिकाम् । आगतं सुकृतिनी कुतोऽप्यमुं काप्यलोकत च पादपातिनम् ॥ ९० ॥ उत्सुकापि हृदि वामलोचना काचन स्फुरितवामलोचना | निश्चितप्रियसमागमा सखीं न न्ययुङ् किल मानमुद्रा ॥ ९९ ॥ ध्यातवल्लभसमागमा गृहद्वारनिश्चलविलोचनद्वया । शून्यहुंकृतिमुखी सखीकथावाचि काचिदुदकण्ठताधिकम् ॥ ९२ ॥ तन्वती प्रियतमे गतागतं तद्गुणग्रहणमञ्जुना मुहुः | दूततामिव गतेन मानिनी मानमात्ममनसैव मोचिता ॥ ९३ ॥ द्वारि काचन नियुक्तया दृशा वीक्ष्य पत्रमपि तोरणे वलत् । वल्लभोऽयमिति जातसंमदा नैकवारमुदतिष्ठदासनात् ॥ ९४ ॥ प्रेषिता प्रियजनेन दूतिका यद्वयलोकि पुरतोऽनुनायिका । अन्वतापि निजदूतिकाद्भुतप्रेरणेन मिथुनेन तन्मिथः ॥ ९९ ॥ द्वारसीमनि ददर्श च प्रियं काचिदप्यघकृतं नुनाव च । प्राङ्गियोजिततदात्वसंचलद्दूतिकागतिविलम्बकारकम् ॥ ९६ ॥ दूतिकां चतुरचाटुशिक्षया योषितः स्वयममज्जयन्त च । आययुश्च हृदयेश्वराः स्वयं प्रेम्णि साम्यमसमञ्जयत्यदः ॥ ९७ ॥ वल्लभेऽभ्ययति तिर्यगानना मानमानयत काचिदखताम् । तन्मुखेन्दुगत कोणया दृशा प्रेम हृतमपि न्यवेदयत् ॥ ९८ ॥ द्वारमेतवति वल्लभेदिशत्कापि मानपरतां पराङ्मुखी । तद्विलोकनमनाश्च लोचनं लोचनेऽसृजद प्रदर्शिनि ॥ ९९ ॥
Aho ! Shrutgyanam