________________
१आदिपर्व-९सर्गः] बालभारतम् ।
तन्मधूमिरसनं सुधारसे तच्च चन्द्रमसि चन्दनार्चनम् । . पावकद्रवनवप्रसाधनं योषितो यदधरे वितेनिरे ॥ ७४ ॥ पाञ्चजन्यविषयेऽपि योषितां तारहारविमलाक्षमालया। कण्ठिकातरलकण्ठुलारवैीवया क इव जप्यते अपः ॥ ७९ ॥ कामयौवनवनेभखेलनस्तम्बयोगदृशामुरोजयोः। एणनाभिमयपत्रवल्लयो रेजिरे मदजलावलेपवत् ॥ ७६ ॥ शक्रकार्मुकसहस्रमावहन्नङ्गदद्युतिभरैर्यदङ्गनाः। तत्सहस्रमितवेध्यवेधने चित्तभूर्भुवमभूत्सहस्रदृक् ॥ ७७ ॥ जित्वरं युवतिपाणितां गतं तोयवासतपसेव तोयजम् । शौक्तिकेयवलयावलिच्छलात्सेव्यते शशिकलाभिरप्यदः ॥ ७८ ॥ अङ्गुलीषु नवरत्नमुद्रिकाभूषणानि पुनरुक्तभूषणम् । भूषिता मुकुरजप्रभाकरैश्चक्रिरे रसक्शान्मृगीदृशः ॥ ७९ ॥ धार्यतामिह दृढं त्वया त्वया वध्यतामिति कृतारवैर्मिथः । मेखला खलु नितम्बमण्डले बध्यते मृगहशः सखीजनैः ॥ ८० ॥ स्मेरमथुरसमानहंसकं पादपङ्कजयुगं मृगीदृशाम् । यत्तदाननमहोहोर्मिभिनिर्मदः कमलमर्दनोऽजनि ॥ ८१ ॥ योषितां रमणरागजागरैः सांध्यरागरुचयो विनिर्जिताः। अजसौहृदरिपूनपि क्रमात्तत्क्षणं जतुमिषात्सिषेविरे ॥ ८२ ॥ कौमुदीविशदयोः सदच्छतादृश्यमानविशदाङ्गशोभयोः । चारुचन्दनविलेपचीरयोर्लभ्यतेऽपि न भिदा नतध्रुवा ।। ८३ ।। इत्यवाप्तनवभूषणाः क्षणं वीक्ष्य रत्नमुकुरेऽङ्गमङ्गनाः । भासमानरसभावभङ्गयो जज्ञिरे दयितदर्शनोत्सुकाः ।। ८४ ॥ तद्रसप्रसरसारसारणीभूतभूतलसुरेश केशव । आवयोरपि वयो नवं प्रियादर्शने सफलतां विगाहताम् ॥ ८५ ॥ इत्यनङ्गलसदङ्गनारसस्मेरमानसविलासयोस्तयोः । केषु मानमथनेच्छया मिथोऽदीपि दंपतिषु नेक्षणस्पृहा ॥ ८६ ॥ १. 'कुण्डला-' ग. २. 'महोत्सव' क. ३. सारणी स्वल्पसरित्.
Aho! Shrutgyanam