________________
१००
काव्यमाला।
कल्पितो गगनचर्मणि स्वयं पेषयन्त्रवदयं मनोभुवा । किं दलीकृतवियोगिलोकहृत्कीकशाभतटतारकः शशी ॥ ६१ ।। उच्छलन्ति वियदर्णवे नवाश्चन्द्रिकामयचलज्जलोर्मयः। इत्यवैमि मकरो विशृङ्खलं खेलतीह मकरध्वनध्वजः ॥ ६२ ॥ नागलोकतिमिरच्छिदोत्सुकैर्दागहंप्रथमिकाविकासिभिः । आविशद्भिरिव सोमरश्मिभिः क्षोभितः पतिरपामपि क्षणात् ।। ६३॥ प्रेमसीधुरसनोपदंशकं यच्छतो बत चकोरदंपती। सोमकोमलकराङ्कुरं मिथश्चारुचञ्चपुटकोटिमोटितम् ॥ ६४ ॥ चन्द्रिकाभिमृतकामिनीतनुच्छायमण्डलकमेव सेवकम् । दृश्यतेऽस्ततिमिरावरोधनस्त्रीकुलं भुवि शुचेव नि ठत् ॥ ६५ ॥ किं न सैष समयः सुधामयश्छाययापि बत यत्र पुष्पितम् । भूरुहां चलदलान्तरस्फुरच्चन्द्रिकानिचितचन्द्रकच्छलात् ॥६६॥ चन्द्रचक्रधृतिदुर्धरोऽधुना चित्तभूरधित चक्रवर्तिताम् । तेन दूरितमदं तदाज्ञया वर्तते जगदशेषमप्यदः ॥ ६७ ॥ कामुकागमसमुत्सुका मुहुः कामबाणगणशाणतां गतैः । सुभ्रवस्तनुमयूखभूषणैर्भूषयन्त्यहह भूषणान्यपि ॥ ६८ ॥ पुष्पशेखरविशेषसौरभभ्रान्तषट्पदपदेन सुभ्रुवाम् । उच्छलन्ति खलु तत्क्षणाङ्गुलीमार्जितोरुकवरीमरीचयः ॥ ६९ ॥ सुभ्रुवो विशदचित्रकादिकं यद्यदेव विदधुः प्रसाधनम् । तत्तदाननतुषारदीधितेश्छिन्नतामगमदिद्धदीधितेः ॥ ७० ॥ सुभ्रुवां रतिरतीशयोः कलावासयोरिव विलोचनद्वये । कापि कज्जललिपिर्जगजितोश्चापयुग्मरुचिरा व्यराजत ॥ ७१ ।। दृक्प्रभाकुसुमिताः कपोलयोर्यल्लसन्ति नवपत्रवल्लयः । तन्मधुर्मधुसखस्य योगतोऽलंचकार नियतं नितम्बिनीः ॥ ७२ ॥ पारिपाश्विकयुगायितस्फुरन्मौक्तिकस्तबकितोरुमण्डलः ।। कामकेलिरसनाटिकानटः कामिनीक्दनचन्द्रमा बभौ ॥ ७३ ॥
१. 'पारिपार्श्वकः' ख-ग. पार्श्वे इति परिपार्श्वम् । विभक्त्यर्थेऽव्ययीभावः । परिपार्श्व वर्तते इति पारिपाश्चिकः । 'परिमुखं च' इति चकाराद्वक्.
Aho! Shrutgyanaim