________________
१ आदिपर्व - ९ सर्गः ]
बालभारतम् ।
दीधितिस्तुहिनदीधितेरसौ भाति जर्जरतमित्रमिश्रिता । कल्पितो नु दिनशिल्पिने ककुब्यौवतेन सतिलो जलाञ्जलिः ॥ ४९ ॥ प्राघुणस्य समुपेयुषः करक्रीडया कुमुदिनीहृदीशितुः । निर्ममे तिमिरसर्पमारणं हा स्वभावमलिनो मरुत्पथः ॥ १० ॥ श्याममन्तरलसज्जगत्रयं स्फीतशीतरुचिमण्डलं नमः । आससाद रवैरिणोंऽशुमन्नेत्रपूजितहरस्य तुल्यताम् ॥ ११ ॥ सैर्वदिग्जुषि तमश्वये रुषा ताम्रमाननमिवादधौ विधुम् । निर्गतेऽत्र चकिते तमखिनी पाण्डुरं विरहलीलयावहत् ॥ ५२ ॥ लक्ष्य लक्ष्म हरितालकाङ्करादालवालवलयादिवेन्दुतः । उद्यता मदनकीर्तिवल्लिवत्कौमुदीयमुडपूरपुष्पिता ॥ ५३ ॥ ओषधीमिषसमज्वलन्महाशोकवह्नय इवान्तरद्रयः । आगते शशिनि मित्रदुःखतश्चन्द्रकान्तसलिलै रुदन्त्यमी ॥ ९४ ॥ सौधमौलिमहिलाक्षिकैरवस्तोम क्लृप्तरुचिदण्डपद्यया । पश्य कैरवसुहृन्नभःशिखां मन्दमन्दमयमेति चन्द्रमाः ॥ ५९ ॥ क्षीरनीरनिधिनीरदः शशी स्फारतारककदम्बबुद्बुदम् । भूरिवृष्टिभरचुम्बिताम्बरं कौमुदीमयमदीपयत्पयः ॥ १६ ॥ रक्ष रक्ष वशवल्लभे भवद्वल्लभस्तुदति कैरवाक्षि माम् । ध्वान्तमित्यलिकुलच्छलादलं क्रन्दतीव परितः कुमुद्वतीम् ॥ ५७ ॥ पीततामसमधुः सुधारुचेरेष मत्त इव कान्तिसंचयः । उत्पतन्नभसि भूतले पतन्नाशु हासयति दिग्विलासिनीः ॥ १८ ॥ ओषधीपतिरयं तमोमयं लोहपिण्डमिव विष्टपत्रयम् । किंचिदौषधमिवाङ्कमावहत्कि न रौप्यमयमेव निर्ममे ॥ ९९ ॥ शीतरश्मितमसोरिदं यशोदुर्यशोभिरभितोऽपि भूतलम् । कौमुदीचयपदार्थकॉयिक च्छायमण्डलमिषैर्विचित्रितम् ॥ ६० ॥
९९
१. अतिथेः. २. विष्णुः सूर्यरूपेण दक्षिणनयनेन शिवं पूजितवानिति पौराणिक कथामनुसृत्येयं कल्पना. ३. 'पूर्व' क. ४. 'कायक' ग.
Aho ! Shrutgyanam