________________
९८
काव्यमाला |
लुप्तलोचनगतीनि सान्द्रतां यत्तमांसि दधिरेतमां दिवि ।
दीपकैः सपदि तद्भुवं भुवः प्रेरितानि ययुरत्र पिण्डताम् ॥ ३६ ॥ किं प्रदीपचयकज्जलोर्मिभिः किं निमीलिनलिनोत्थितालिभिः । किं नु घूककुलहक्कनीनिकाकान्तिभिर्नभसि तुन्दिलं तमः ॥ ३७ ॥ अन्धकारनिकरेण सर्पता शान्तसांध्यरुचिवह्निभस्मना । तारका मुकुरमार्जनामियं संतनोति नियतं निशीथिनी ॥ ३८ ॥ तापमर्कमणिरौज्झदत्यजज्जाड्यमुद्गतमहो महौषधी । अङ्गकोचैममुचत्कुमुद्वती तत्तमः किमु न सर्वरोगभित् ॥ ३९ ॥ एकतानसुरतत्वचिन्तया सिद्धतां ध्रुवमवाप्य पांसुलाः । अस्फुटा जगति दैवनिर्मितादन्धकारपटतोऽधुनाचलन् ॥ ४० ॥ अन्धकारमयगोमयच्छटाडम्बरे रजनिरम्बराजिरे । सोमकामुकसमागमोत्सुका तारकाकुसुमभारमाकिरत् ॥ ४१ ॥ व्योमरङ्गभुवि तारकासमाभाजि किंचिदुदितात्र कौमुदी । अन्धकारवधनाटकोदयद्राजपात्र पुरतः पटीनिभा ॥ ४२ ॥ शैलगुप्ततनुरेष चन्द्रमाः प्राग्दिशं मलयजैरिवांशुभिः । कौतुकेन परिताडयत्यसावम्बरोच्छलदुडुच्छलच्छटाम् ॥ ४३ ॥ चापयष्टिरिव मान्मथी पुरः सेयमभ्युदयते विधोः कला । तत्प्रसूनविशिखैरिवोड्डुभिर्भानुमद्विरहिता दिशोऽङ्किताः ॥ ४४ ॥ चान्द्रमर्धमुरुचिह्नमोषधीदीप्तदीपभृति पूर्वपर्वते । शातकुम्भमयकुम्भकेपरं सज्जकज्जलमिवेक्ष्यते दिवः ॥ ४५ ॥ अस्फुटैकल मैन्दवं वपुः कस्य न स्मरमदं करोत्यदः । सेवितामरपतेर्व्रणत्र पागोपिताधरमिवाननं दिशः ॥ ४६ ॥ अस्य पश्य सकला कलानिधेर्मूर्तिरम्बरविलम्बिनी बभौ । लाञ्छनच्छललसन्निशाप्रतिच्छन्दसुन्दरितदर्पणाकृतिः ॥ ४७ ॥ सज्जितं त्रिजगतीजयेच्छया लाञ्छनच्छलविलोकितान्तरम् । मण्डलीकृतमनङ्गधन्विनो धन्व नन्वयमुदन्वदन्वयः ॥ ४८ ॥ १. कोचः संकोचः २. 'खर्परम्' ग. ३. चन्द्रमाः.
|
Aho ! Shrutgyanam