________________
१आदिपर्व-९सर्गः] बालभारतम् ।
सद्यः स्नातनिशाकरान्वयमहावीरद्वयीदीधिति
व्यालोकेन तेदात्वजाततिमिरभ्रान्त्या च भेजुर्मुदम् ॥ ८२ ॥ ' इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के आदिपर्वणि पुष्पावचयजलकेलिवर्णनो नामाष्टमः सर्गः ।
नवमः सर्गः। कृष्णमानमततं महामुनिं यत्पदद्वयनखांशुभासुरः। भुक्तिमुक्तिरमणीशिरोमणीभावमावहति को न कोविदः ॥ १ ॥ भानुमत्यपरसानुमच्छिरःसंमुखेऽथ खलु मार्गखेदिनी । सौधमौलिशिखराग्रशेखरे रुक्मिणीरमणमाह फाल्गुनः ॥ २ ॥ आवहन्निव दिवाकरस्त्वया द्वेषमेष हरिनामसाम्यतः। त्वां निरूप्य गुरुसौधशेखरं पश्चिमाचलशिरोऽधिरोहति ॥ ३ ॥ एष दुनियतिदण्डचण्डिमप्रेरितो बत रविर्गतच्छविः । स्थास्यति स्वयमतः पतन्कियत्कालमम्बरविलम्बिभिः करैः ॥ ४ ॥ हन्त संतमसमण्डलीसुहृत्पांसुलाकटुकटाक्षयष्टिभिः । प्रेर्यमाण इव पश्चिमाचले निष्पपात तुहिनेतरद्युतिः ॥५॥ दीधितिर्दिनकरे तु नायके सापराध इव तापमाप या। अत्र गच्छति पराङ्मुखेऽधुना खिद्यते खलु निराशयानया ॥ ६ ॥ . क्वापि तापिदिवसार्धविह्वलो बबलीयत सेदागतिध्रुवम् । सांप्रतं दिनविरामवामने भानुधामनि शनैर्लसत्यसौ ॥ ७ ॥ पश्चिमां भजति वल्लभे निजे रागभाजि शिशिरे दिनेश्वरे । ईर्ण्ययेव पतनार्थमुन्नतान्युन्नतान्यधिरोह दीधितिः ॥ ८ ॥ मीलदजमुखमध्यसूक्ष्मकद्वारनिर्यदलिदम्भतोऽजिनी । मुञ्चतेऽर्कविपदेव दुःखिता पश्य निःश्वसितधूमधोरणीम् ॥ ९॥
१. चन्द्रवंशोद्भूतकृष्णार्जुनशरीरकान्तिदर्शनेन. २. तदात्वं तत्कालः. ३. 'मुक्ति. भुक्ति' ग. ४. 'शेखरः' ख-ग. 'शेखरम्' इति साधीयान्पाठः. 'प्रासादशङ्गभागस्स शिखामाल्यम्' इति तदर्थः; एवं सति 'गुरुसौधशेखरम्' इत्यग्रिमश्लोकस्थं विशेषणं सं. गच्छते. ५. वायु:.
Aho! Shrutgyanam