________________
९६
काव्यमाला।
जागृहीति पुरतः षडङ्गिणा व्याहृतेव निनदैः कुमुद्वती। किंचिदुन्मिषितकैरवेक्षणा हुं करोति मृदु तत्प्रतिस्वनैः ॥ १० ॥ आगतागतवियोगदुःखितौ कृप्तगाढपरिरम्भविभ्रमौ। मुञ्चतोऽश्रु चितपक्ष्म पक्षिणावक्षिदीनवदनौ दिनाधिपे ॥ ११ ॥ मण्डलीचलितपक्षिमण्डलीकैतवेन तरवे वितन्वते । यामिनीसमयशीलभीतितो मौलिबन्धमिव पश्य मौलिषु ॥ १२ ॥ एष्यदुर्धरतमश्चमूपुरश्चारिवीरनिकरानुकारिभिः । गोरजोभिरभितोऽभिषङ्गिभिः शेष एष दिवसोऽवसीदति ॥ १३॥ दूरतः खयमुपेयुषो रवेः पूजितस्य सबलैः सुरासुरैः। रत्नपीठ इव सज्जयत्ययं बिम्बबिम्बनमिषेण वारिधिः॥ १४ ॥ वासरास्यकमलस्य भास्वरं भास्करस्य लवमात्रकं वपुः ।
ओष्ठबिम्बमिव चुम्बनोत्सवादापपेऽपरदिशानुरक्तया ॥ १५ ॥ कापि गन्तुमनसा दिनश्रिया यामिनीसमयकेलिलीलया। भानुरब्धितरणाय सज्यते न्यङ्मुखो घट इवार्धलक्षितः ॥ १६ ॥ अस्तभूमिभृति भाति वारुणीदिग्वधूस्तनसमे समुन्नते। रागिणोऽरुणवपुर्लवो रवे रागचिह्ननखलक्ष्मसंनिमः ॥ १७ ॥ अस्तभूमिधरमस्तकज्वलद्भास्करोपलकृशानुभानुभिः । एष तप्त इव पाटलद्युतिः सप्तसप्तिरपतत्पयोनिधौ ॥ १८ ॥ यद्भिदे त्रिभुवनं भ्रमाम्यहं लब्धमेतदधुना क यास्यति । इत्यसौ खलु रुषारुणो रविस्तोयधौ तिमिरशङ्कयापतत् ॥ १९ ॥ सुप्तनीरशयनाभिनीरजक्रोडपीडितविरिञ्चिपञ्चितैः । अम्बुधौ कमलबान्धवोऽधुना कृष्टिमन्त्रजपनैरिवापतत् ॥ २० ॥ द्राग्वितीर्य ककुभां मुखे मैषीकूर्चकं निचिततद्रुचिस्पृशाम् । अन्वगामि दयितो दिनश्रिया सांध्यरागशिखिसेवया रविः ॥ २१ ॥ अत्र सांध्यसमये समागते यजनो भजति नम्रतां कृती । चित्रमत्र किमु नीलिताः करा यजलैरपि सरोरुहच्छलात् ॥ २२ ॥ १. 'मखी' क-ख-ग.
Aho ! Shrutgyanam