________________
काव्यमाला।
गङ्गां पयोगौरतया मदस्पृशं तां ताम्रपणीमपि मौक्तिकश्रिया । तदा विजग्ये यमुना वधूकुचस्थलीगलचन्दनहारहारिणी ॥ ७२ ॥ कनीनिकाकान्तिभिरञ्जनं दृशोः स्मितत्विषा चन्दनचर्चनं हृदः । कटाक्षभाभिनवमुत्पलं श्रुतेस्तदा वधूनामिति भूषणान्यभान् ॥ ७३ ॥ वधूवराणां जलखेलनोत्सवैस्तदा प्रवृद्धो हृदि रागसागरः । यथा समुद्भान्त इव व्यलोक्यत क्षणेन रज्यन्नयनच्छविच्छलात् ॥७४॥ मुखद्विषीवाजवने वधूजनैलूनेऽरुणः क्रुद्ध इवाजबान्धवः । ययौ तटं तोयनिधेस्तदाननस्पर्धार्थमुत्साहयितुं सुधाकरम् ।। ७५ ॥ रुचिप्रियाभिः सह कान्तिकामुके विलस्य निर्याति नभःसरोवरात् । समं समन्तान्निजकामिनीजनै वाधुवानोऽपि निरीयुरम्भसः ॥ ७६ ॥ शनैर्विनिर्गच्छति कामिनीजने बभूव जानुद्वयसं तदा पयः । प्रवृद्धिहेतूचनितम्बनिर्गमात्स्वेनापसृत्याजनि तीरगं तदा ॥ ७७ ॥ गतासु कान्तासु तदा तदाननप्रभाभवद्भर्त्सननिर्भयैरिव । क्रीडाप्रवृद्धोदकनाशिभिर्मुदा स्फुटीबभूवे सरिदजकाननैः ॥ ७८ ॥ नितम्बिनीनां वदनेन्दुसंपदा पश्चात्कृतैर्विस्तृतकेशकैतवात् । गलत्पयोबिन्दुकदम्बकच्छलाच्चिद्वैरिवान्तर्व्यथितैररुद्यत ॥ ७९ ॥ आम्रज्यमानेऽपि धवैर्वधूतनोविच्छोटिते क्लेदिनि चीवरे हठात् । अस्यां दृढाश्लेषणमन्यवाससा तेने सुतारुण्यदशाभृतां कभीः ॥ ८० ॥ मौलौ पाटलपुष्पदाम घटना सीमन्तसीमान्तरे
सिन्दूरप्रसरो ललाटफलके माञ्जिष्ठरत्नाङ्कुरः । गण्डे कुङ्कुमपत्रवल्लिरधरे लाक्षारसस्थापना
कर्णे पङ्कजकर्णिकेति सुदृशां संध्याभासोऽभवत् ।। ८१ ॥ संध्याशोणतरे रविच्छविभरे मूर्तेऽनुरागार्णवे
मन्ना दंपतयो निशागमसमुत्कण्ठां च रन्तुं व्यधुः। १. 'आकाशरूपतडागात्स्वप्रभारूपकामिनीभिः सह विलासं कृत्वा निर्गच्छति भास्करे' इति तात्पर्यम्. २. 'आप्रेज्यमाने' ग. ३. 'मूर्तानुरागार्णवे' ग.
Aho! Shrutgyanam