________________
१ आदिपर्व - <सर्गः ]
बालभारतम् ।
उरःस्फुरन्माल्यभृतः सुमावलीपरीतधम्मिल्लपरार्ध्यपृष्ठकाः । सचापतॄणा इव पुष्पधन्वनश्चमूचरा दंपतयो विरेजिरे ॥ ३३ ॥ वधूवराणां वपुषि प्रसूनजैर्वृते रजोभिः श्रमवारिपङ्किले । हतद्विषन्मानमहाबलो बली मुदं दधौ मन्मथमत्तसूकरः ॥ ३४ ॥ प्रसूनरेणुप्रकरा वनान्तरे मृदुस्फुरद्वायुविवर्तनर्तिताः । वधूजनस्पर्शकृतोत्सवा बभ्रुर्दिवाकरस्येव करा विकम्पिनः ॥ ३९ ॥ प्रियेण वध्वाः श्रमधर्मभेदिभिः पटान्तवातैः प्रेमदाश्रुशीतलैः । वृथा कृतस्नेहभरस्थितिर्दुतं हतः सपत्न्यामभिमानदीपकः ॥ ३६ ॥ मरुत्कृते चालयितुं पटान्तरं स्वयं भुजंगे प्रणयादनीश्वरे । अघानि कस्याश्चन धर्मजं पयस्तदा सपत्नीश्वसितैः खरैरपि ॥ ३७ ॥ सरोजबन्धुर्न लिनद्विषन्मुखानतापयद्युक्तमहो वधूवरान् । इमेऽपि युक्तं तपनात्मजां तदा बभूवुरालोडयितुं समुत्सुकाः ॥ ३८ ॥ वनान्तराद्दंपतयो विभूषणप्रसूनमालामिलितालिमण्डलाः । तीव्रांशुतप्ताः पयसेऽचैलँल्लताजुषो गता जङ्गमता इव द्रुमाः ॥ ३९ ॥ प्रसून सर्वस्वमुदारविग्रहे स्वयं गृहीत्वा चलिते वधूजने । चेलुश्छलायेव सहैव शाखिनः शिखिच्छदच्छत्र कदम्बदम्भतः ॥ ४० ॥ रवौ प्रतीचीजुषि कोऽपि धारयञ्ठः पटीं मूर्धनि मुग्धसुभ्रुवः । छन्दानुवृत्त्या जलधेरिवासितच्छविं युवानो यमुनामलोकयन् ॥ ४१ ॥ अथो रथाङ्गैश्चलचन्द्रघाटिकाभयान्यभात्यन्त मुखानि योषिताम् । मरालबालैः सुविहारवारिजत्रजप्रमोदाद्यमुनाजलस्थितैः ॥ ४२ ॥ समापतत्तुङ्गतरङ्गसंगताद्भुत प्रतिच्छन्दमिषेण योषिताम् । कृतस्थितीनां तटिनीतटे रयादभ्युत्थितं चक्रुरिवाम्बुदेवताः ॥ ४३ ॥ अमुत्र मा भैष्ट पुरोऽपि सुभ्रुवः सृजन्ति केलि लहरीषु पश्यत । इति प्रतार्य प्रतिबिम्बदर्शनादवीविशत्कामिजनोऽङ्गना जलम् ॥ ४४ ॥ पयांसि नाभिद्वयसान्यपि द्रुतं जनातिरेके ययुरंसन्नताम् । ह्रियेव मग्ने निजपङ्कजव्रजे मुखानि राजीवयितुं मृगीदृशाम् ॥ ४९ ॥ १. आनन्दाश्रुशिशिरैः २. 'चललताजुषः ' ग. ३. नाभिप्रमाणानि प्रमाणे द्वयसच्.
Aho ! Shrutgyanam
९१