________________
काव्यमाला।
चिरं प्रियाया मुखमीक्षितुं प्रिये पुष्पाण्यमुञ्चत्यपि कम्पतोऽपतत् । अजानती तानि पतन्ति संमुखी न सापि चक्षुः प्रियचक्षुषोऽकृषत् २० अपि प्रसूनेषु नखक्षतं प्रिये सृजत्यसूयां विदधे मनस्विनी । भृङ्गोऽपि पुष्पावचयोत्थितः पिबन्प्रियामुखाजं रसिनाप्यसूयत ॥२१॥ भृङ्गेण दष्टो नवपल्लवभ्रमादुपेत्य दूरादधरो मृगीदृशः। विषव्यथां हर्तुमिव स्वयं रयादुपालि पीतो दयितेन धीमता ॥ २२ ॥ प्रिय प्रयच्छेदमतीव मञ्जुलं प्रसूनमित्युक्तिभिरुच्छ्रिताङ्गुलौ। लतोन्मुखायां सुदृशि द्रुतं पपौ परः परस्याश्छलबन्धुरोऽधरम् ॥२३॥ रहः समालिङ्गय परां परोऽन्यतः परागरज्यन्नयनां समागताम् । क्रुद्धेति दीनोऽनुनयन्वयूं मृषा कृतागसं खं स्वयमप्यजिज्ञपत् ॥२४॥ प्रसूनपाताद्गलदश्रु सुभ्रुवो विलोचनं कूकृतिकारिकामिषात् । अचुम्बदच्छन्नमिवाच्छवाससा पिधाय कच्चिच्चतुरः स्मरातुरः ॥ २५ ॥ रुग्णे रजोभिः प्रियदत्तपुष्पजैरङ्गे कृशाङ्गयाः परिमार्जनोद्यतम् । शुशोच निःश्वासमपि प्रसृत्वरं निजं सपत्नीसविधे कृतस्थितिः ॥२६॥ अवाप्य कस्याश्चन कण्ठकन्दलं प्रदत्तया चित्तहरेण मालया। मुदेव नृत्यं विदधे विलोलया मुहुः सपत्नीश्वसितोर्मिनुन्नया ॥ २७ ॥ रजोऽवकीर्ण दयितेन कौसुमं परां यदालिङ्गितुमङ्गनादृशि । तदाशु निःश्वासभरेण निघ्नती हहात्मनि द्रोहमपि व्यधत्त सा ॥२८॥ निशम्य तृप्ताममुनाभिधाभिदा मदर्पणेऽसौ त्यजदाशु मा स्म माम् । प्रियेण वध्वा हृदि रोपिता व्यधादितीव माला तुमुलं चलालिभिः २९ रसोत्थकम्पेन न पारितः स्रजा धम्मिल्लबन्धो दयितेन सुभ्रवः । मुधा सपत्न्या मुमुदे न मूढया तमात्मभीतं हृदि मन्यमानया ॥ ३० ॥ अन्या कटाक्षाहतिभीगलत्करः स्फुरद्रसोऽसाविति शङ्कमानया । धम्मिल्लबन्धप्रगुणः प्रियः स्त्रिया चिरं चुचुम्बे वलिताननं मुदा ॥३१॥ चुम्बाय धृत्वा चिबुकं विवर्तिते वेगेन वक्रे किल कापि किंनरी । धम्मिल्लबन्धे कुचसंगते बभौ हयास्यतुल्ये कुसुमालिगायिनि ॥ ३२ ॥ १. 'अनुगेन' क-ख.
Aho! Shrutgyanam