________________
१ आदिपर्व - ८ सर्गः ]
बालभारतम् ।
दूरादाने कुसुमानि कामुकेऽभिधाभिदि प्रौढलताकृतस्थितौ । तान्येव तस्मिन्मदनास्त्रतां ययुः श्वासानिलैर्व्याघुटितानि सुभ्रुवाम् ||७|| तन्वीं तनूतुल्यतया लताततौ पुरः स्फुरन्तीमविभाव्य वल्लभः । क्षिप्ता प्रसून स्तबकभ्रमात्करं कुचौ स्पृशन्नेव दधार दक्षताम् ॥ ८ ॥ प्रियस्य पुष्पाय लताधिरोहिणः पदाङ्गली निम्नशिखावलम्बिनी । अलब्धपूर्व करजक्षतोत्सवं मृगीदृशालभ्यत पल्लवभ्रमात् ॥ ९ ॥ द्रुमाधिरूढे कुसुमं प्रयच्छति प्रिये गिरा कोमलयाभिभाषिणि । नवीन वध्वाः पुलकप्रकम्पयोर्गलन्मरन्दाभिगमोऽभवन्मिषम् ॥ १० ॥ लूने प्रसूने मधुपस्तदाश्रयः श्रयन्मुखानं रणितं चकार यत् । भियाभिषिक्तः प्रथमं नवोढया वोढास्मरन्मङ्गलगीतमेव तत् ॥ ११ ॥ अलि विलूनात्प्रसवादुपागतं कयापि वित्रासयितुं विदग्धया । करः क्वणत्कङ्कणकं न कम्पितो विलोलयालिङ्गि भियेव वल्लभः ॥ १२ ॥ शुचिस्मिताः पुष्पितवल्लिविभ्रमादुपेयुषी षट्पदपद्धतिर्वधूः । विकम्पयन्तीरपि ताः करौ भयादियं मुदा पल्लविनीरमन्यत ॥ १३ ॥ मुखाद्वहिलम्बिनि सुभ्रुवां स्मिते समेत्य दूरादलयः सुमभ्रमात् । कृतोपवेशा द्रुतबद्धपक्षति क्षितौ पतन्तो दधिरे यदि स्तनैः ॥ १४ ॥ प्रियेण मुक्ते कुसुमोत्करेऽन्तरान्यतः सपत्नीश्वसितैरपीरिते । मुदा स्फुरत्पुष्प इवैक्षि सज्जितो निजस्मितस्मेरतलः करोऽन्यया ॥ १९ ॥ परस्परालोकनमग्नचेतनं करादजानन्गलितानि पूर्वतः । वृथा प्रसूनानि ददौ प्रियः प्रिया वृथा गृहीत्वैव शिरस्यरोपयत् ॥ १६ ॥ कराग्रकर्षेण वधूमपि द्रुमेऽधिरोपयन् कोऽपि विकम्पितः पतन् । हारेण शाखाग्रविलम्बिना रसस्तम्भीकृतश्वासलघुश्चिरं धृतः ॥ १७ ॥ स्मरातुरः कश्चन दूरचुम्बनानुकारलीला मिलदोष्ठसंपुटः । प्रियामुखे पुष्पलयोन्मुखे समं तदेव तेन्वत्यतिसंमदं दधौ ॥ १८ ॥ युवा विचिन्वन्कुसुमानि वृक्षतः पपात पश्यन्नपरामचेतनः । अघानि पादेन ततो विदग्धया धृतकुधा निर्दयमेव कान्तया ॥ १९ ॥
१. 'पथि' इति साधीयान्पाठः २. 'तन्वन्नतिसंमदं' इत्युचितम् .
१२
Aho ! Shrutgyanam
८९