________________
८८
काव्यमाला |
प्रेङ्खोलनान्यतुलखेलनधूतशाखिपुष्पच्युतैर्मधुरसैः स्तिमितानि बाढम् । साक्षादशक्यललितानि विमुच्य चक्रुश्वेतः क्रुधेव कुसुमावचये युवानः ॥ ८२ ॥ प्रागुत्तीर्णप्रियतमभुजाडम्बरालम्बलोला
दोलासौख्यं क्षणमकलयन्नुत्तरन्त्योऽपि नार्यः । सद्योऽभ्यासप्रबलमबलाचक्रवाले समन्ता
दप्युत्तीर्णे न चिरममुचलौलभावं च दोलाः ॥ ८३ ॥ वीराः पार्थमुकुन्दयोरथ वनोत्सङ्गे कुरङ्गीदृशां विव्वोकैर्ह्रियमाणमानमनसो मन्दं विलेसुर्मुदा । एभिर्विग्रहरूपविग्रहधरैः सार्धं वितन्वन्निव
स्पर्धा मत्र मनोभवोऽपि ललितं चक्रे रतिक्रीडनैः ॥ ८४ ॥ इति श्रीमनिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये आदिपर्वणि वसन्तवर्णनो नाम सप्तमः सर्गः ।
अष्टमः सर्गः ।
अहो महत्त्वं वचसामगोचरं प्रपञ्चयकृष्णमुनिः पुनातु वः । भवार्णवोऽप्येष विशोषमेति यत्पदद्वयीरेणुकणैरपि क्षणात् ॥ १ ॥ रथाङ्गपार्थानुचरैरथ द्रुमा नवप्रवालप्रसवग्रहाशयैः । भूरीभवत्पल्लवपुष्पवैभवा इति व्यचीयन्त कराङ्गुलीनखैः ॥ २ ॥ लतासु लातुं लसिते मृगीदृशां घनध्वनत्कङ्कणसंकरे करे | द्रुतोत्पतिष्णुभ्रमरी भरैर्मयादिव प्रसूनैरुदनामि दूरतः ॥ २ ॥ विलूयमानानि मुकुन्दकामिनीजनेन लीलाविपिनान्तवल्लिषु । पुष्पाणि तत्पाणिजपाटलप्रभाटोपानि कोपादिव शोणतां ययुः || ४ || निजप्रियाणामिव वश्यताकृते परस्परं दंपतिभिः ससंमदैः । जवादवाचायिषत स्वपाणिभिः पुष्पाणि बाणार्थमनङ्गधन्विनः || ९ || बहून्नमन्त्यः कुसुमेच्छया मुहुर्मुहुर्नमन्त्यश्च नितम्बभारतः । स्त्रियः प्रियाण्यूर्ध्वरतानि रागिभिः स्मरस्मयस्मेररसैरसस्मरन् ॥ ६ ॥
Aho ! Shrutgyanam