________________
१आदिपर्व-७सर्गः]
बालभारतम् ।
सोऽपि व्यलोपि शिशिरेण तदा विलोल
दोलाविलाससुलभेन समीरणेन ॥ ७९ ॥ दोलागतागतविनोदरसेन गीतं
प्रापञ्चयन्त सुदृशः श्रितपञ्चमं यत् । तस्य प्रतिध्वनिरिवोपवनाश्रयाणा___मश्रावि कुण्ठकुहरेषु कुहूकरीणाम् ॥ ७६ ॥ साध्यं न मन्मथशरैरपि यत्तदेव ___ मात्सर्यमाशु गलहस्तयितुं प्रियाणाम् । रेखामिषाद्विनमनोन्नमनेन रत्न
प्रेङ्खोलनैर्विदधिरे ध्रुवमर्धचन्द्राः ॥ ७७ ॥ दोलाविलासकुतुकोद्भुरकृष्णपार्थ
वीरावलीसरलपादहतं तदैव । स्पष्टान्तरान्तरपरिस्फुरिताम्बुवाह___ मद्यापि जर्जरमिवाम्बरवर्त्म भाति ॥ ७८ ॥ दोलाचलघुवमिषेण सहस्रमूर्ती__भूय स्वयं स्मर इव स्मृतपूर्ववैरः । व्यालोलहारमिषकौसुमचापधारी
धाटीकृते पुररिपोर्दिवि धावति स्म ॥ ७९ ॥ सद्यः स्फुरत्तरलकातरदृग्विलोक
स्वेदप्रकम्पपुलकोद्मविभ्रमाणाम् । पार्थोपवेशललिते दयिते वधूनां .
दोलाधिरोहभयमेव मिषं बभूव ॥ ८० ॥ स्वेदोद्मव्यतिकर श्लथितानि यष्टि
मुष्टिग्रहे करतलानि वधूसखानाम् । दोलागतागतधुतद्रुममौलिपुष्प
श्रेणीपरागपतनेन दृढत्वमापुः ।। ८१ ॥ १. कोकिलानाम्,
Aho! Shrutgyanam