________________
८६
काव्यमाला |
उच्चैर्गतित्रुटितहारलतासमुत्थमुक्तावृतः क्षणमलक्षि मरुत्पथोऽपि । स्वेदोदबिन्दुपरिपूर्ण इवाङ्गनानां दोलाविलासकलया प्रहतः पदायैः ॥ ६९ ॥
दोला लाविलसितेन विलासिनीनां मत्वा वशां त्रिजगतीमपि पञ्चबाणः । मिल्लतः थतराद्रभसेन तासा
माकृष्य तूणत इव प्रसवान्यमुञ्चत् ॥ ७० ॥
प्रेङ्खोलनेऽम्बरतेऽप्यतिधाष्टर्यमुक्तयष्टिग्रहाद्रुतविनिर्मितहस्तताला ।
अत्रासयन्मृदुलगीतिभिरापतन्तं
काचिद्विधोर्मृगमिवास्यकलङ्कभीत्या ॥ ७१ ॥
दोलागतेन गगनाग्रमवाप्य शोणं
कस्याश्चन क्रमयुगं विनमद्विलोक्य | भानुर्न्यधत्त नयनं निजपाणियुग्मे
लीलासरोजयुग लीगलनभ्रमेण ॥ ७२ ॥
यष्टिग्रहव्यतिकरेण करेण सज्जी
कर्तुं तताङ्गिललितं वसनं न शक्ताः । ऊर्ध्वा बभूवुरिति केलिकुतूहलाय
दोलाकलासु कुशलास्तरलायताक्ष्यः ॥ ७३ ॥
स्वच्छाद्भुतस्फटिकरत्नविनिर्मितासु
दोलासु निर्मलतया स्फुटमस्फुटासु ।
ऊर्ध्वाः स्त्रियो निरवलम्बनमम्बरान्तः खेला इव त्रिदशचारुदृशो विरेजुः ॥ ७४ ॥ आसीत्परस्पर परिक्रमणानुभावै
र्यः स्वेदबिन्दुविसरः किल दंपतीनाम् ।
Aho! Shrutgyanam