________________
१ आदिपर्व - ७ सर्गः ]
बालभारतम् ।
दोला कौतुकवनीपृथुकर्णपाशलोलासु कुण्डलितुमीषुरुदारभासः ॥ ६२ ॥ भर्ताधिरोपयति यावद्दश्य दोर्भ्या तावद्वधूरधिरुरोह रयेण दोलाम् । अभ्यस्तनित्यपुरुषायितलाघवानि
श्रोणिस्तनोन्नतिनताप्यभिदर्शयन्ती ॥ ६३ ॥
प्रेङ्खोलने परिवृढेन कुतूहलेन
काप्यध्यरोषि रमणी समुदस्य दोर्भ्याम् । दूरास्त्रपातबलसंभ्रमभाजि यन्त्रे
शस्त्रं जगत्रयजितेव मनोभवेन ॥ ६४ ॥ दोलाधिरोहपरयापरया प्रियस्य
पृष्ठे न्यधीयत पदं यदलक्तकाङ्कम् । पञ्चाङ्गुलीपरिचितेन स तेन पृष्ठ
रङ्गनिषङ्ग इव पञ्चशरो विरेजे ॥ ६५ ॥ दोलाधिरोपकृतये रभसादुदस्य
कोऽपि प्रियां कृशतरो दरबद्धमुष्टिः । त्रासातुरं स्मरजितापि मृणालधन्वा
नन्वात्तवज्रजयशक्तिरिवाशशङ्के ॥ ६६ ॥
दोलास्पृशां मृगदृशां वदनानि रेजुर्दण्डावलम्बनतबाहुयुगान्तराले ।
सद्यो मृणालजनितेषु शरासनेषु
बाणीकृतानि नलिनानि मनोभुवेव ॥ ६७ ॥
किंचिन्नतस्फुरितपृष्ठतताग्रपादं
लोलालकं रणितने पुरकङ्कणादि ।
नृत्यन्नितम्बमुपविष्टरतानि दोला
लीलायितं स्मरयति स्म नितम्बिनीनाम् ॥ ६८ ॥
१. 'चाङ्ग' ग. २. 'कङ्कणनूपुराणि' क.
Aho ! Shrutgyanam
८५