________________
काव्यमाला।
कश्चित्नियामनुपतन्नितरामुरोज___ संस्पर्शलालसमना विततैः करात्रैः । आसादयद्गुरुतदीयनितम्बबिम्ब
दूरीकृतो बत कथंचन बाहुमूलम् ॥ ५६ ॥ खेदं सखीषु गमनादभिनीय काचि__ दाकाङ्गितौ रसवशादवलम्बनाय । ताम्यद्भुनापि पुरतः कुचपूरदूर
नुन्नस्य वर्त्मनि न भर्तुरवापदंसौ ॥ १७ ॥ दूरादुपेत्य पुरुषायितलाघवोत्थ
वेगादनुप्रथितमन्दपदामजानन् । वल्लीविलग्नवसनव्यसनच्छलेन
प्रीत्यैक्षत प्रणयिनीमपरो मुधैव ॥ १८ ॥ उच्चैनितम्बकुचडम्बरभारभुन्ना
लीलावती किमपि मन्दपदं जगाम । एवंविधामपि सदैव हृदा दधानः
कान्तोऽन्वगादतिशनैरिति युक्तमेव ॥ १९ ॥ तादृग्वसन्तसमयस्पृहणीयमेव
दोलासुखं रतिपतेरपि पूरयन्ती । आलम्ब्य काचन करेण करं प्रियस्य
लीलाविलोलभुजमिन्दुमुखी जगाम ॥ ६॥ विष्वग्विलासवनगुल्मलतागताना
मेणीदृशामसमभासुरभाभिरास्यैः । उल्लासिभिः कुसुमितः शुशुभे वसन्त
श्चन्द्रैरिवायुधकृते कुसुमायुधस्य ॥ ११ ॥ एणीदृशस्तनुतिरस्कृतजातरूपा
नानामणिप्रवणभूषणभासमानाः । १. नितमां' ग. २. व्यसनमुन्मोचनम्. ३. जातरूपं सुवर्णम्.
Aho! Shrutgyanam