________________
१आदिपर्व-७सर्गः]
बालभारतम् ।
सेयं दशापि तव तप्ततनूविवर्त
संवर्तमर्मरितबालमृणालशय्या । तुभ्यं सदैव नलिनानि समानयन्ती
लोकेऽपि कोपिनि बभूव निरुत्तराहम् ॥ ५० ॥ एषा पदे निपतितामि कुरु प्रसाद
मद्यास्तु ते रिपुजनो विफलाभिलाषः । इत्थं विचक्षणसखीवचनानुरोधाप्राणाधिनाथमनुकूलयति स काचित् ॥ ५१ ॥
(पञ्चभिः कुलकम्) रन्तुं परः करयुगेन गृहीतपाद
पद्मः सृजन्ननुनयानभिमानवत्याः । उत्पत्य दीनवचनोऽप्यनिरीक्ष्य वक्र
तस्याः शुशोच कुचगौरवमप्यभीष्टम् ॥ १२ ॥ यस्या ध्वनिर्मम गिराप्युपमीयते सा
स्यात्कीदृशी पिकवधूः सखि दृश्यमेतत् । इत्युक्तिकैतववती वनमाप कापि
पूर्व गतेऽपि दयितेऽनुनयान्निरस्ते ॥ ५३ ॥ प्रौढागसापि दयितेन पदप्रणाम___ लीलावतापि रचितं बत गोत्रभेदम् ।
तं काचिदश्रुतवतीव मनोभवज्या__टंकारराववेलिता चलिता वनाय ॥ १४ ॥ एषा कथं परिहरिष्यति मानमित्थं
चिन्तानिधिर्नतमुखो विलिखन्धरित्रीम् । उद्दामकामशरपीडितया कयापि
कान्तो नितान्तमनुनीय वनाय निन्ये ॥ ५५ ॥ १. 'मानेन' क. २. 'परिवृढेन' ख-ग. ३. 'तत्' क. ४. 'मनोभुवि' ग. ५. 'कलितें ग.
Aho! Shrutgyanam