________________
काव्यमाला।
पुष्पाणि जिघ्रति मुहुर्मधुपीभुजंगः
कामेन नुन्न इव बाणपरीक्षणाय ॥ ४३ ॥ सद्यो वसन्तभरफुल्लितफुल्लमल्ली___ संभारसौरभमिलत्पवने वनेऽस्मिन् । कुन्तीतनूज ननु जन्म च जीवितं च __रागेण नागरजनस्य कृतार्थयावः ॥ ४ ४ ॥ इत्युक्तिसंमदवशीकृतचित्तवृत्ती
कृष्णार्जुनौ परिजनेन समं समन्तात् । तौ निन्यतुः सफलतां वनमण्डलानि
लीलारसेन मधुना मधुरीकृतानि ॥ १५ ॥ खेलाय खाण्डववनाय ततो युवान__ श्वेलमधूत्सवरसेन वधूसहायाः । पूर्वप्रयुक्तनयनद्वयकृष्यमाणा ___ मन्ये विलासमदभारभृतोऽतिमन्दम् ॥ ४६॥ अद्य त्वदेकहृदयो हृदयाधिनाथ__ श्चाटुक्रियाभिरनुकूलयते सखि त्वाम् । मुञ्चाभिमानमिदमान्तरलोचनेन ___ मुग्धे विचारय वचो मम मानयैनम् ॥ ४७ ॥ स्वच्छे न वेत्सि किमु चाटुपटुं सपत्नी
प्रायो भवन्ति पुरुषाः खलु चाटुसाद्याः । चेदुत्सवेऽद्य स करिष्यति खेलनानि
सार्ध तया किमयशःपटहो न तेऽसौ ॥ ४८ ॥ किं चान्यभृयुवतिकूजितपञ्चबाण__ बाणासनक्कणितरौद्रदिगन्तराणि । एतानि तानवितमानवतीमनांसि
वत्से मधूत्सवदिनानि सुदुःसहानि ॥ ४९ ॥ १. 'तनुजन्म' ख-ग.
Aho! Shrutgyanam