________________
१ आदिपर्व - ७ सर्गः ]
बालभारतम् ।
मञ्जीरमन्द्ररवमञ्जुमरालमालावाचालबालकमलकमया रयेण । कॢप्ते पदे मदवशेन वसन्तलक्ष्म्या किंकिल्लिवल्लिभिरलभ्यत पल्लवालिः ॥ २५ ॥
रक्तोत्पलप्रचितकुञ्चितकुञ्चिकाभै
रुत्फुल्लकिंशुकलताकुसुमैरमीभिः । उद्धाट्य किंचिदपि मानमयं कपाटं
कामो विवेश हृदि संप्रति दंपतीनाम् ॥ २६ ॥
सौभाग्यभाग्यमुररीकुरुते लतासु
सर्वासु चम्पकलतैव नितान्तमेषा ।
यस्या वसन्तरमणः कुसुमच्छलेन
भूषाभरं सुरभिभिः कुरुते सुवर्णैः ॥ २७ ॥ उत्फुल्लफुल्लमहसा हसति द्विरेफ
नादेन गायति विघूर्णति मारुतेन ।
सद्यः प्रपद्य सुमुखीमुखमद्यमद्य
धत्ते प्रमत्त इव कां बकुलो न लीलाम् ॥ २८ ॥
आलिङ्गितः कुरुबकाख्यत रुस्तरुण्या शक्रेमकुम्भकुचया सुरुचाभिसृत्य । इत्येष शेषधवलाभिरलाभि सद्यः
सौभाग्यकीर्तिभिरिव प्रसवप्रभाभिः ॥ २९ ॥
कामाकुलः खलु कटाक्षघटाः क्षिपन्तीमात्मन्यवेक्ष्य रमणीं रमणीयतार्थी ।
अह्नाय मूर्ध्नि कुसुमानि नवानि बन
न्प्रीतिं तनोति तिलकः किल कस्य नासौ ॥ ३०॥
७९
१. 'कङ्केलिः' इति साधीयान्पाठः, 'कङ्केल्लिरशोकः' इति 'जस्स कारणादो उक्खfuse बन्धणं far कल्लिपल्लवं -' इत्यादिलवङ्गिकोक्तिव्याख्याने जगद्धरपण्डिताः.
Aho ! Shrutgyanam