________________
७८
काव्यमाला ।
वन्येभदानसलिलश्रुतितालवृन्तयोगेन जीवित इवातिशनैरुपैति ॥ १८ ॥ ग्रासोन्मुखैः फणिकुलैरिव मारुतोऽयं वित्रासितो मलयजद्रुमबद्धवासैः । आयाति मन्दमिह 'गीतिविलासलोलावेणीर्विलोक्य सुदृशां भृशद्भियेव ॥ १९ ॥
विन्ध्यत्रिकूटमलयाचलकंदराभिः
पीतोऽपि तोषयति नः पवनः प्रसर्पन् । दोलाविलास चलकेरलकैरवाक्षी
वक्षोजवायुलहरीलयला लितोऽयम् ॥ २० ॥ आवाति पश्य शनकैर्मलयानिलोऽयं यहूननूतनविलोलवनप्रसूनः । अस्मिन्वियुक्तवनिताजनतापकारी
तद्वाणवृष्टिरसिको विलसत्यनङ्गः ॥ २१ ॥
तं विक्रमं वितनुते मलयानिलोऽयं कामस्य वीर इव मानिपताकिनीषु ।
येन द्विरेफमुखरास्तरवः शिरांसि
प्रीत्येव काष्ठवपुषोऽपि विकम्पयन्ति ॥ २२ ॥ दूरं गते त्वयि भवन्मुखसोदराणि संतापमत्र मलिनान्यपि धारयन्ति ।
मासः कृतोऽवधिरधीश स पूर्ण एव
संप्रत्यपि स्मरसि मां न कथं कथंचित् ॥ २३ ॥ पङ्केरुहव्यतिकरैरपि तापिताभि
सायमानघटिका घटिकागमाभिः ।
प्रातः प्रयाणचलितेषु मुहूर्त काले
संदिश्यते विरहिणीभिरिति प्रियेषु ॥ २४ ॥
१. 'गीत' ग. २. 'आयाति' क. ३. 'प्रीत्यैव' ग.
Aho ! Shrutgyanam
(युग्मम्)