________________
१ आदिपर्व - ७ सर्गः ]
बालभारतम् ।
दीर्घोऽपि दैर्घ्यमभजद्दिवसो बभार
काय कृशापि च निशा प्रिययोगभाजाम् । प्रौढोऽप्यधत्त लघुतां स पुनर्गुरुत्वं
क्षामापि सा समतनोद्विरहातुराणाम् ॥ १२ ॥ तापर्द्धिरुत्तरदिशि व्रजतो रराज राजीविनीयुवतिजीवितवल्लभस्य ।
काप्युत्कटा कवचितेव तदन्तराशा - वासित्रिलोचनविलोचनवह्निबाष्पैः ॥ १३ ॥
संतापिता इव खरैरविरश्मिभारै
स्तारा विहाय गगनं तुहिनांशुवध्वः । स्वेदोदबिन्दु पटलीकपटेन कान्त
भ्रान्त्येव चन्द्रवदनावदनानि भेजुः ॥ १४ ॥ उत्तेजयत्यनिशमेणदृशां मुखानि
कामायुधाय मधुरेष यथा यथोच्चैः । स्पर्धावादिव महांसि तथा तथाय
१ सूर्यस्य.
मुद्योतयत्यनुदिनं मृगलाञ्छनोऽपि ॥ १५ ॥ पुंस्कोकिले किमपि गायति सार्वभौमराज्याभिषेकमिव संतनुते स्मरस्य । अश्रान्तकान्तरत कौतुक जातखेद
-
स्वेदोदविन्दुभिरिह प्रमदामुखेन्दुः ॥ १६ ॥
विश्वत्रयं विजयते मकरध्वजोऽयमस्त्रीकृतेन मम कोमलकूजितेन । एनं तथापि कुसुमास्त्रमुशन्ति लोकाः पुंस्कोकिलोऽरुणितदृष्टिरिति क्रुधेव ॥ १७ ॥ आपत्य विन्ध्यगिरिसीमनि मूच्छितोऽयमभ्रंकषाग्रशिखरस्खलनेन वायुः ।
Aho ! Shrutgyanam
७७