________________
७६
काव्यमाला |
सूर्यात्मजाजलगजध्वनितेन नित्यं नृत्यन्ति नादविधुरीकृत पान्थसार्थाः ॥ १ ॥ वन्येभकुम्भहृतमौक्तिकमिश्रगुञ्जा
संजातभूषणभराः शबरेन्द्रकन्याः । अस्मिन्विचित्रसिचयीकृत चित्रकाय
कायत्वचः पुरपुरंध्रिजनं हसन्ति ॥ ६ ॥ लीलावती मुखमिवेन्दुजयावदातं विद्योतमानमणिकुण्डलमण्डलेन ।
पश्य स्वभावशुभशोभमपीदमद्य
कांचिसन्त विभवेन बिभर्ति भूतिम् ॥ ७ ॥ क्रौञ्चप्रपञ्चितदरं ननु माधवस्य
पश्यावतारमतिमत्तशिलीमुखौघम् ।
येन व्यभूषि वनभूरपि मानसौकस्तोमेन शुभ्रकुसुमस्तबकच्छलेन ॥ ८ ॥ मन्ये प्रसूनभरसौरभवासलोभा
दात्मा व्यासारि सहसैव विहायसापि । अस्मिन्नपि द्युमणिवाहनवाहिवा है
ये चिरेण ववृधे दिवसैरवश्यम् ॥ ९ ॥ शङ्के वसन्तभरनिर्भरभासमान
सीमन्तिनी मुखमयूखभराभिभूतम् । पीयूषदीधितिममुं दयितं निरीक्ष्य
दुःखादमूर्दधति दुर्बलतां त्रियामाः ॥ १० ॥
ईदृग्वसन्त विभवेन यथा यथामी
प्रौढिं क्रमेण दिवसाः परिदर्शयन्ति ।
शङ्के त्रपापरिभवेन तथा तथैताः
यामा नवीनवनिता इव संकुचन्ति ॥ ११ ॥
१. चित्रकायो व्याघ्रः २. रात्रयः.
Aho ! Shrutgyanam