________________
१आदिपर्व-७सर्गः] बालभारतम् ।
नयविनयविवेकादभ्रविभ्राजितश्री
स्तदवनिवनिताया वल्लभो धर्मवीरः । घनधनजनपूर्ण पालयित्वा समन्ता
दकृत सुकृतदृश्यं तत्पुरं ब्रह्मणोऽपि ॥ १०४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये
वीराङ्के आदिपर्वणि पाण्डवराज्यार्थलाभवर्णनो नाम षष्ठः सर्गः ।
सप्तमः सर्गः। सेवध्वमध्वरभुजामपि सेवनीयं
पाराशरं मुनिमवाप्तयदङ्गसङ्गः । वर्णः शुचित्वमसितोऽपि तदाप केश___ व्याजेन येन शिरसा ध्रियते न कैः कैः ॥ १ ॥ अन्येयुरर्जुनहरी तपसस्तनूज__ मापृच्छय पौरपरिवारपरीतपाचौँ । जाते वसन्तसमये यमुनोमिबिन्दु
सिक्ताय खाण्डववनाय गतौ विहर्तुम् ॥ २ ॥ अन्तःप्रसृत्वरपतङ्गभवस्त्रेवन्ती
नीरप्रभाभिरिव नीरदनीलवर्णम् । आलोक्य खाण्डववनं पुरतो मुरारि
रानन्दकन्दलितगीनिजगाद पार्थम् ॥ ३ ॥ उल्लचितं च परितः परितापितं च
तिग्मांशुना कलितदुःखमिवान्तरिक्षम् । पश्येदमत्र यमुनाजलसीम्नि वेल्ल
द्वल्लीजटं वनमिषेण तपस्तनोति ॥ ४ ॥ वर्षाभ्रमादिव सुसंहतशाखिसंघ
शाखातिरोहितशशिद्युमणौ मयूराः । १. यमुना.
Aho! Shrutgyanam