________________
८०
काव्यमाला |
कोऽप्येष कुंजकतरुर्घनसारधूपधूमोर्मिधूपिततनुर्धृतपुष्पमालाम् ।
गायन्मधुत्रतवधूमधुरा रवेण
वश्यीकरोति कुतुकीव वसन्तलक्ष्मीम् ॥ ३१ ॥
श्रीमद्वसन्तऋतुराजविलासभूमि
भ्रतिर्विभाति सहकारमहीरुहोऽयम् ।
स्थानप्रदायिषु षङ्गिषु कोकिलेय
मत्र प्रपञ्चयति कंचन पञ्चमं यत् ॥ ३२ ॥ मत्तेषु पश्य दयितारसविह्वलेषु पारावतेषु कृतकौतुककूजितेषु ।
एषा वसन्तपरिरम्भभरेण रम्भा
कामातुरेव मकरन्दरसं ददाति ॥ ३३ ॥ नव्यप्रसूनमिषतो नवमाधवीयं
स्वेदोदबिन्दुनिवहानिव हासयन्ती । सङ्गे वैसन्तकमितुर्घनचञ्चरीक
रोमाञ्चकञ्चुकितचारुतनुश्चकास्ति ॥ ३४ ॥
अद्याप्यजातकुचकल्पफला मिलन्त्यो मन्दानिलेन शिशुकेलिकलेन पश्य ।
कन्या इव स्फुरितनूतनपुष्पहासाः
क्रीडां मिथो विदधते नवनालिकेर्यः ॥ ३५ ॥
खर्जूरिकाविशदरेणुकणावलीभिरश्मालीकृततनूः पटलीरलीनाम् ।
प्रध्वानिनीर्मदनपुष्पमयेषुपङ्कि
कल्पाः कृताम्बरगतीः कति नानमन्ति ॥ ३६ ॥
व्यालोलमञ्ज रिभरः स्फुरितप्रसूनः
कस्योत्सवं हृदि ददाति न सिन्दुवारः ।
१. कुब्जकः सेवतीभेदः, 'सेवती पुष्पसाहस्रात्कुब्जकं पुष्पमुत्तमम्' इति नरसिंहपुरा
णम्. २ वसन्तकामुकस्य.
Aho ! Shrutgyanam