________________
१ आदिपर्व - ६ सर्गः ]
बालभारतम् ।
तयाथ नीतः फणिपत्तनान्तस्तत्राग्निमालोक्य समाहितं सः ।
कृती चकाराखिलमग्निकार्य श्रेयः स्पृशां कुत्र न कार्यसिद्धिः ॥ १५ ॥ अतीवरक्तां भजतः कृशाङ्गीं न ब्रह्मचर्यव्रतभङ्गमाहुः । विना तदालिङ्गनसंभवेन यस्मादसून्धर्तुमसौ न शक्ता ॥ १६ ॥ चिरं विचिन्त्येति कृती निकामं कामार्तिलोलार्दितकातराक्षीम् । दयामयो दीनगिरं किरीटी कौरव्यकन्यामभजद्भुजंगीम् ॥ १७ ॥
( युग्मम्)
७१
निशोषितस्तामयमात्तगर्भामापृच्छ्य याति स्म पुनर्निवेशम् । निवेद्य सद्यश्चरितं द्विजेभ्यः प्रालेयशैलोपतरं प्रपेदे ॥ ५८ ॥ ततो गतोऽगस्त्यवटाद्वसिष्ठशैलेऽभिषिक्तो भृगुतुङ्गतीर्थे । विलोक्य तीर्थं स हिरण्यबिन्दोस्तं पर्वतश्रेष्ठमपि प्रपेदे ॥ १९ ॥ व्रजन्नथ प्राग्दिशि स प्रपेदे नन्दीं नदीं नैमिषकाननं तत् । तटानि नन्दापरनन्दयोस्तां श्रीकौशिकीं ते च गयात्रिमार्गे ॥ ६० ॥ स सागरं वीक्ष्य कृती कलिङ्गदेशान्महेन्द्रं च महामहीघ्रम् | तटेन सिन्धोर्मणिपूरमाप्य तीर्थानि पार्थो निखिलान्युपास्त ॥ ६१ ॥ ततोऽत्र दृष्ट्वा मणिपूरभर्तुश्चित्राङ्गदां चित्रनृपस्य पुत्रीम् । रूपे रतिं स्वैरविहारशीलां तां प्रत्यभूत्पाण्डुसुतः सकामः ॥ ६२ ॥ प्रेभंकराह्वेन ममान्वये प्रागपुत्रिणोवपतिना तपोभिः । आराधितो दत्त वरं हरोऽस्मै वंशे तवैकैकमपत्यमस्तु ॥ ६३ ॥ मा यावदासंस्तनुजा ममेयं सुता भवद्वंशकरी तु पार्थ । जातस्ततोऽस्यां तनयस्तवास्तु मद्रूपताभागिह संविदेति ॥ ६४ ॥ पित्रार्थितेनाथ वितीर्णयास्थात्तया समं तत्र नरस्त्रिवर्षीम् । ततोऽभवद्बभ्रुरिति प्रतीतः सूनुर्द्विषद्रूपभुजंगभ्रुः ॥ ६५ ॥
(त्रिभिर्विशेषकम् )
स दक्षिणाम्भोनिधितीर तीर्थसार्थाय पार्थस्तदितश्चचाल । महर्षिभिस्तत्र निवारितोऽपि सौभद्रतीर्थे सवनं च सक्रे ॥ ६६ ॥ १. ‘प्रभंकराख्येन' ख. २ ' दत्तवरः' ख. ३ 'असौ' ख. ४ बभ्रुर्नकुलः.
Aho ! Shrutgyanam