________________
७०
काव्यमाला।
स खाण्डवप्रस्थमथो पृथायाः सूनुर्ययौ गर्जिततर्जितारिः। तत्र व्यधादिन्द्रपुराममिन्द्रप्रस्थाभिधानं नगरं नरेशः ॥ ४२ ॥ इदं मनःकल्पितपूर्णपूर्णवाञ्छाभरैरप्यमरैरलभ्यम् । पुरं प्रपन्नाय पुरंदरोऽपि तस्मै नृपाय स्पृहयांबभूव ॥ ४३ ॥ निवेश्य वैश्वानरतुल्यभासस्तान्पाण्डवानत्र गते मुरारौ । समाभुवं प्राप युधिष्ठिरस्य श्रीनारदः स्फारदयामयात्मा ॥ ४४ ॥ सुन्दोपसुन्दावजयौ वरेण तिलोत्तमाकारि सुरैस्तदर्थे । सहोदरौ प्रीतिपरौ प्रियार्थ परस्परं युद्धपरौ विनष्टौ ॥ ४५ ॥ अथास्य वाचा महितस्य चक्रुः पञ्चापि वीराः समयं किलेति । उपैति कृष्णाजुषि यो द्वितीयः स स्यात्समा द्वादश तीर्थसेवी ॥४६॥ इति प्रतिज्ञाय कृतप्रणामाः कामप्रचारे व्रतिनि प्रयाते । समृद्धराज्याः समयेन तेन ते द्रौपदीभोगभृतो बभूवुः ॥ ४७ ॥ अथैकदा कश्चन चौरचक्रैर्गोचक्रवालेषु हृतेषु विप्रः । पृथाभुवो धावत धावतेति क्रन्दन्मुहुस्तत्पुरमाससाद ॥ ४८ ॥ प्रियायुतक्ष्मापतिरुद्धसौधगुप्ते तदास्त्रे विधुरे च विप्रे। स्मरन्मनोऽन्तः समयं किरीटी किं किं करोमीति मुहुर्मुमोह ॥ ४९ ॥ रणैर्द्विजार्थ सुकृतं विशेषात्तद्वादशाब्दैश्च वने मुनित्वात् । तदार्जुनो दुर्जनमौलिशूलं ध्यात्वेति चापं गृहतश्चकर्ष ॥ ५० ॥ विजित्य चौरानथ सव्यसाची विप्राय दत्त्वा सुरभीरभीरुः । तदा निषिद्धोऽपि नृपेण धीरोऽरण्यं ययौ विप्रगणेन साकम् ॥५१॥ द्विर्द्विरेफैरिव पीयमानदानः स नागेन्द्र इवेन्द्रसूनुः । भ्रमन्नरण्येषु जगाम गङ्गाद्वारेऽथ भास्वद्भवतापमित्त्यै ॥ १२ ॥ इहाग्निहोत्राणि तथा कथंचिच्चकुर्द्विजाः पाण्डुसुतानुयाताः। यथा त्रिमार्गा तनुते तरङ्गैरद्यापि तप्तेव विवर्तनानि ॥ ५३ ॥ अथाग्निकृत्याभिषवाय गङ्गागर्भप्रविष्टं रसभादुलूपी । जहार कौरव्यभुजंगपुत्री कौरव्यमेनं मदनाभितप्ता ॥ १४ ॥ १. अयं श्लोकः ख-ग-पुस्तकयो स्ति.
Aho! Shrutgyanam