________________
७२
काव्यमाला |
पदग्रहव्यग्रमिहोग्रमग्रे जग्राह स ग्राहमुदग्रबाहुः | विपक्षपक्षक्षयदीक्षिणस्तं चिक्षेप साक्षेपमथान्तरिक्षे ॥ ६७ ॥ व्यलोकयद्वाहपदे तदेष नभोऽन्तरा देशमिवोत्पलाक्षीम् । उवाच सा वाचमिति प्रतीतां पार्थ प्रति प्रीतिसुधोर्मधौताम् ॥ ६८ ॥ प्रवीर पञ्चाप्सरसः प्रसिद्धाः सिद्धालिगोष्ठीषु वयं वयस्याः । इहास्मि धर्माथ च सौरभेयी सामीरिका बुद्बुदिका लता च ॥ ६९ ॥ द्विजेन केनापि तपः स्थितेन शप्ता वयं विघ्नविधाननिघ्नाः । अभूम धीमन्निह पञ्चतीर्थ्यां पञ्चापि यादांस्यतिनिष्ठुराणि ॥ ७० ॥ यदा नरः क्षेप्स्यति खे समर्थः कश्चित्तदा वः खलु शापमुक्तिः । अनुग्रहोऽस्माकमभूत्तदायमित्यस्मि मुक्तार्जुन मोचयान्याः ॥ ७१ ॥ इदं निशम्यापि परेषु पार्थस्तीर्थेषु ता मोचयति स्म शापात् । तदादि संप्रत्यपि पञ्चनारीतीर्थान्यमूनीति ययुः प्रसिद्धिम् ॥ ७२ ॥ अथार्जुनस्तीर्थशतानि पश्यन्गोकर्णमुख्यानि दिशि प्रतीच्याम् । पृथुप्रभावप्रसरं प्रभासक्षेत्रं ययौ क्षत्रियसार्वभौमः ॥ ७३ ॥ रोमाञ्चितो मारकतप्रभाभिर्यः पद्मरागै रचितानुरागः । तरङ्गिणीसङ्गरसो बभार स्वेदोदबिन्दूनिव मौक्तिकानि ॥ ७४ ॥ सुधास्य पुत्री पतिरौषधीनामस्याङ्गभूरेष पदं मणीनाम् । उदेत्यतो मन्त्रमयोऽर्यमेति यस्मिन्न सर्पत्यपि कालसर्पः ॥ ७९ ॥ कुवैस्तपो नक्तमिति श्रुतं यः क्षयक्षपायां भुवनानि भुक्त्वा । विष्णुं हृदि न्यस्य महेशभालहग्दीपभृज्जागरणं करोति ॥ ७६ ॥ पितृद्विषं कुम्भभवं विभाव्य यत्संभवाः कुम्भधियेव मुक्ताः । पदं ददत्याहृतहाररूपा भूपालकान्ताकुचमण्डलेषु ॥ ७७ ॥ कृष्णस्य कुक्षौ स्थितमब्धिनेति हसनोक्तीः स्फुटफेनभाभिः । यो वक्ति कृष्णं निजकुक्षिभाजं स्वभावशुद्धोदककृष्णभाभिः ॥ ७८ ॥ अस्ताचलाग्रच्युतभग्नमग्नचण्डांशुखण्डानि तमीषु यस्मिन् । वीचीचयोत्थज्वलनस्फुलिङ्गावलिच्छलेनाधिकमुच्छलन्ति ॥ ७९ ॥
Aho ! Shrutgyanam