________________
आरम्भ-सिद्धिः
ततश्चोष्टमुखादित्वाद्वहुवीहिसमासे एकस्य पशब्दस्य लोपः । ततोऽयमर्थःयस्तद्राशेरीशः स आद्यद्रेष्काणस्यापि, यस्तस्मात्पञ्चमराशेरीशः स द्वितीयस्य, यो नवमराशेः स तृतीयस्य । उक्तं च हारिभन्द्या लमशुद्धौ---
" दिक्काणो उ तिभागो सो पढमो निअयरासिअहिवइणो । बीओ पंचमपहुणो तइओ पुण नवमगिहवइणो " ॥ १ ॥"
बृहज्जातकेऽप्युक्त-"द्रेष्काणाः स्युः स्वभवनसुतत्रित्रिकोणाधिपानां" इति । तेन "द्रेष्काणा भे त्रयस्त्वाद्यपञ्चमान्त्यनवांशपाः" इति यत्केऽपि पेठुस्तञ्चिन्त्यं । विशेषस्तु केचिद्राशीनां सप्तांशकानपि व्यवहरन्ति, तेषां च नाथा एवं होगमकरन्दे उक्ताः-"स्वादोजे युग्मभे छूनगेहाद्गण्यास्तज्ज्ञैः सप्तमांशाः क्रमेग" ॥
नवांशाः स्युरजादीनामजैणतुलकर्कतः।
वर्गोतमाश्चरादौ ते प्रथमः पञ्चमोऽन्तिमः ॥ २१ ॥ ____ व्याख्या--राशिषु प्रत्येकं नव नव नवांशाम्ततस्तद्गणनक्रममाह-अजेणेति अभ्रादित्वान्मत्वर्थीयेऽप्रत्यये तुलस्तुलावान्, मेषस्य नवांशा मेषमादौ दत्त्वा नव गुण्याः , वृषस्य तु मकरं, मिथुनस्य तुला, कर्कस्य च कर्क । एवमेव सिंहादिचतुष्के धन्वादिचतुष्के च वाच्यं । एषां चेशा ये मेषादीशास्त एव । प्रयोजनं स्थानबले वक्ष्यमाणमित्रस्वगृहोच्चनवांशगा इत्यादि । विशेषस्तु---
ति चउ पण सत्त नवमा रासीण नवं सथा सुहा जम्मे । पढम दु अट्ठम अहमा छटो पुण मज्झिमो नेओ" ॥ १ ॥
इति पूर्णभद्रः । वर्गोतमा इति वर्गे समूहे उत्तमाः कोऽर्थः? चरराशिष्वाद्यो नवांशो वर्गोत्तमः, स्थिरेषु पञ्चमः, द्विस्वभावेषु नवमः । सर्वस्य राशेः स्व. समाननामा नवांशो वर्गोत्तम इति भावः । प्रयोजनं तु " वोत्तमनवांशजाः स्वकुले मुख्याः स्युरित्यादि " । वर्गोत्तमत्ववशादन्त्योऽपि नवांशो लग्नेष्याद्रिः यते, अन्यथा त्वग्र ह्योऽसौ । यत्पूर्णभद्रः लग्नस्याद्यन्नमध्येषु बलं पूर्णाल्पमध्यमं” इति । हर्षप्रकाशेऽप्युक्तं-"वम्गुत्तमं विगा दिजा नेव चरमं नवंसगं । कह मित्ति" । वर्गोत्तमनवांशस्थो ग्रहोऽपि वर्गोत्तम उच्यते, स च भृशं बलवान् । उक्तं हि दैवज्ञवल्लभे
Aho! Shrutgyanam