________________
प्रथम विमर्श:
व्याख्या--आकृतिर्द्वाविंशच्छन्दोजाति: । उडूनि सप्तविंशतिः । अर्हन्तश्वतुर्विंशतिः अङ्का नव । अयमर्थ:- इष्टभादष्टादशे भे स्थितः सन्नर्क इष्टभं लत्ता हन्ति, चन्द्रस्तु द्वात्रिंशे भे स्थितः सन्नित्यादि । लत्ता किल पादप्रहारः स चाश्वादीनामिव प्रायः पृष्ठतः स्यात्ततस्तथोक्तः ॥
अथ ज्योतिर्विदां नक्षत्रगणनसौकर्यार्थं यथा पुरतः स्यात्तथा पाठान्तरेणाह - लत्तयन्ति भमर्काद्याः स्वक्षतः साभिजित्क्रमात् ।
अर्का १२ ष्टा८ग्नि३ विकृत्य २३ ६ तत्त्वा२५ष्ट८ प्रकृति२१प्रमं
व्याख्या -- स्वर्क्षत इति यद्येन ग्रहेण तदा आक्रान्तं स्यात्तस्य तत् स्वक्ष, ततो येषु येषु भेष्वद्या राहृन्ता: स्थिताः स्युस्तेभ्योऽग्रे क्रमाद्वादशादी नि भानि लत्तया घ्नन्ति। विकृतिप्रकृती त्रयोविंश्यैकविंश्यौ छन्दोजाती । त सांख्यमते पञ्चविंशतिः । उत्तरार्धे सुखार्थं पाठान्तरं - " सूर्या १२ ८ त्रि३ त्रयोविंश २३ षट्६ तत्त्वा २५ है८ कविंशकः २१ । अस्मिँश्च लत्ताद्वैविध्येऽपि नार्थभेदः । तथाहि - इष्टभमश्विनी ततोऽष्टादशे भे ज्येष्टायां स्थितोऽर्कोऽश्विनी पृष्ठतो लत्तयति । तथार्कस्य स्वक्षं ज्येष्ठा तत्रस्थोऽर्कः पुरतो द्वादशं भमश्विनीं लत्तयति । एवं सर्वत्र भाव्यं । ननु यदिष्टदिनस्यभं तदेवेन्दोर्भ, तत्रस्थश्चेन्दुयदि द्वाविंशमष्टमं वा में लत्तयति तदेष्टभस्य किमागतं ? ततश्चेष्टभस्येन्दुलत्ताविचारणं व्यर्थमेवापद्यते । सत्यं परमिन्दुः परिपूर्ण एवं सन् भं लत्तयति, नान्यथा, यदाह श्रीपति:- " द्वाविंशं परिपूर्ण मूर्तिरुडुपः संतापयेन्नेतर: " aat aavat यत्र भे समाप्ता स्यात्तदेवेन्दोर्भ कल्पयित्वा ततो विचायें । उक्तं च यतिवल्लभे-
1
(C
चकार यत्र नक्षत्रे राकान्तं रजनीकरः ।
ततश्चाष्टमनक्षत्रं स पुरो हन्ति लत्तया ॥ १ ॥
५५
ܕ
लत्तायां परमतमध्याह
अग्रतो नवमे राहोः सप्तविंशे भृगोस्तु भे ।
Aho! Shrutgyanam