________________
प्रथम विमर्शः
इति सान्वयनामानो योगाः
स्युः सप्तविंशतिः ॥ ७१ ॥.. .. व्याख्या-स्पष्टाः । विशेषस्तु "विक्खंभ१ सूल२ गंडे३ अइगंडे४ वज५ तह य वाघाए । वइधिइ७.सूराइकमा अइदुठ्ठा मूलजोगा ओ" ॥ १ ॥ इति नारचन्द्र टिप्पनके ॥ एषु दुष्टयोगानां दुष्टघटीराहव्यतिपातवैधृताख्यौ सकलौ परिघस्य पूर्वमध च । प्रथमः पादोऽन्येष्वपि विरुद्धसंज्ञेषु हातव्यः ॥ ७२ ॥
व्याख्या-पूर्वाधं पादश्च टिप्पनकलिखिततादात्विकतत्प्रमाणापेक्षया निर्णेयः । विरुद्धसंज्ञेष्विति विशिष्टं कर्म जायमानं रुणद्धीति विरुद्धा दुष्टार्थमिलितेत्यर्थः, तादृशी संज्ञा येषां ते विष्कंभगंडातिगंडशूलव्याघातवज्रपातेषु ॥ प्रथमः पाद इति यदुक्तं तत्र प्रकारान्तरमाह
त्यजेद्वा पञ्च विष्कंभे षट् तु गंडातिगंडयोः । घटिकाः सप्त शूले तु नव व्याघातवज्रयोः ।। ७३ ॥ व्याख्या-स्पष्टः । विष्कंभादिदुष्टयोगेष्वेकार्गलवेधयोगस्योत्पत्तिमाहएकार्गलः कुयोगेषु चन्द्रेऽर्के च परस्परात् ।। गते साभिजिदोजर्फ त्याज्यः पादान्तरो न चेत्॥७४
व्याख्या-एकार्गलस्त्याज्य इति संटंकः । कुयोगेष्विति भनेन प्रीत्यायुआमदादिसुयोगेष्वेकार्गलो न स्यादेवेति सूचितं । कुयोगेषु सरस्वपि कदाऽस्य संभव इस्याह-चन्द्रेऽकें चेत्यादि, साभिजिदित्यत्र सहशब्दो विद्यमानार्थे, तेनाभिजिदत्र गण्यत इत्यभिप्रायः । एवं लत्ताश्लोकेऽपि व्याख्येयं । ततोऽभिजिता सहाष्टाविंशति नक्षत्रेषु वक्ष्यमाणरीत्या एकार्ग लचके क्रमान्न्यस्तेषु चन्द्रादोंऽकच्चि चन्द्रो यद्यन्योन्यस्माद्विषमे नक्षत्रे एकस्मिाले स्थितौ स्यातां तदा पकार्गल: स्यात् स त्याज्यः, यस्मिनक्षत्रे एकार्गलः पतति तन्नक्षत्रं शुभकार्येषु
Aho ! Shrutgyanam