________________
४८
आरम्भ-सिद्धिः
एषां फलं नामभिरेव व्यञ्जितमिति न पृथक् प्रतन्यते । केचित् प्राजापत्य १ सुरोत्तम २ मनोज्ञादिषट्कट शूल९ गजानां १० क्रमेण धूम्र १ प्रजापति२ मानस३ पद्म४ लंबको५ स्यात६ मृत्यु७ काण८ शुभ९ गद १० संज्ञाः प्राहुः | उपयोगसंज्ञा चान्वर्था अमीषां विष्कंभाथहर्योगसमीप एव सदाभावात् ॥ कुयोगेष्वपवादमाह -
यत्प्रातिकूल्यं वाराणां तिथिनक्षत्रसंभवम् । हूणवंगखसेष्वेव तत्त्यजेदिति केचन ॥ ६७ ॥
व्याख्या – तिथिसंभवं यथा संवर्तककर्कयोगादौ । नक्षत्रसंभवं यथा उत्पातमृत्युकाणोपयोगादौ । हूणाद्या देशविशेषाः । केचनेति अयं भाव:एकान्तिककार्यं विना शेषेष्वपि देशेष्वेते त्याज्याः ॥ शुभाशुभयोगसंकरे शुभयोगबलमाह
सिद्धियोगः कुयोगश्च जायेतां युगपद्यदि ।
कुयोगं तत्र निर्जित्य सिद्धियोगो विजृम्भते ॥ ६८ ॥ व्याख्या— यौगिकनामाश्रयणाच्छुभयोगः सर्वोऽपि सिद्धियोगशब्देनात्र प्राः ॥ अथ दिनयोगानाह
विष्कंभः १ प्रीति२ रायुष्मान् ३ सौभाग्यः ४ शोभन५ स्तथा । अतिगंडः ६ सुकर्मा७ च धृतिः८ शूलं९ तथैव च ॥ ६९ ॥ गंडो १० वृद्धि ११ व १२ चैव
व्याघातो १३ हर्षण १४ स्तथा ।
वज्रं १५ सिद्धि१६ वर्व्यतीपातो १७
वरीयान् १८ परिघः १९ शिवः२० ॥ ७० ॥
सिद्धः २१ साध्यः २२ शुभः२३
शुक्लो२४ ब्रह्मा२५ चैन्द्रो२६ऽथ वधृतः २७ ।
Aho ! Shrutgyanam