________________
:: आरम्भ-सिद्धिः
एवमेते विरुद्धनामानः १ सामान्ययोग २ सुयोग ३ सिद्धय ४ मृतसि. घ्या ५ ख्याश्चेति पञ्चविधयोगा उक्ताः आत्यन्तिकासिद्धि १ दृिच्छिकसिद्धि २ विलम्बितसिद्धि ३ चिन्तितसिद्धि ४ चिन्तिताधिकसिद्धि ५ श्वेति क्रमादेषां फलानीति त्रिविक्रमः ॥ पुनर्योगानाह
योगः कुमारनामा शुभः कुजज्ञेन्दुशुक्रवारेषु । अश्व्याद्यैदयन्तरितैनन्दादशपञ्चमीतिथिषु ॥ ५३ ॥
व्याख्या--कुजाद्यन्यतमवारे अश्व्यायेद्वन्तरितैरिति अश्विनी १ रोहिणी २ पुनर्वसु ३ मघा ४ हस्त ५ विशाखा ६ मूल ७ श्रवण ८ पूर्वभद्रपदा ९ न्यतमभेन नन्दाद्यन्यतमतिथौ कुमारयोगः । अयं विशिष्य स्थिरकर्मणि मैत्री. दीक्षाव्रतविद्याशिल्पग्रहणादौ गृहप्रवेशे च शुभः । अयं च विरुद्धयोगोत्पत्ति वर्जयता ग्राह्यः । तेन भौमे दशमी पूर्वभद्रपदा च, सोमे एकादशी विशाखा च, बुधे प्रतिपन्मूलमश्विनी वा, शुक्रे रोहिणी, एते कुमारयोगा अपि नेष्टा: यथासंभवं कर्कसंवर्तककाणयमघंटयोगोत्पत्तेरिति श्रीहरिभद्रसूरिकृते लग्नशुद्धिप्रकरणे॥
राजयोगो भरण्याद्ययन्तर्रभैः शुभावहः। भद्रावतीयाराकासु कुजज्ञभृगुभानुषु ॥ ५४ ।।
व्याख्या-द्वयन्तरैरिति भरणी १ मृगशिरः २ पुष्य ३ पूर्वाफल्गुनी ४ चित्रा ५ नुराधा ६ पूर्वाषाढा ७ धनिष्ठो ८ त्तरभद्रपदा ९ न्यतमभे भद्रान्य. तमतिथौ कुजाद्यन्यतमवारे राजयोगः । अयं लघुक्षिप्रमङ्गल्यधर्मपौष्टिकभूषणक्षेत्रारंभादिषु विशिष्य श्रेष्टः, तरुणयोगनामाप्ययमिति पूर्णभद्रः । अयमपि विरुद्ध. योगोत्पत्ति वर्जयता ग्राह्य इति संभाव्यते । तेन रवौ सप्तमी द्वादशी वा भरणी च, भौमे धनिष्ठा, बुधे भरणी धनिष्ठा वा, शुक्रे द्वितीया सप्तमी वा पुष्यश्च, एते राजयोगा अपि नेष्टाः, यथासंभवं संवर्तकर्कवजमुसलोत्पातकाणादियोगोत्पत्तेः ॥ स्थिरयोगः शुभो रोगोच्छेदादौ शनिजीवयोः । ..
Aho! Shrutgyanam