________________
२६
आरम्भ-सिद्धिः एतद्वर्णानां ग्रहविद्धत्वे सति तत्तत्पादजानां पीडेति साफल्यसद्भावात् । उक्तं च तञ्चक्रविवरणे
" विध्यन्ते घङछा रौद्रे षणढा हस्तगे व्यधेः ।।
फढधाः प्रागषाढायामाहिर्बुध्ने तु शाझथाः " ॥ १ ॥ प्रागिति पूर्वाषाढा ॥ अभिजित: स्वरूपमाह
उत्तराषाढमन्त्यांहिं चतस्रश्च श्रुतेर्घटीः ।
वदन्त्यभिजितो भोगं वेधलत्ताद्यवेक्षणे ॥ ३०॥ व्याख्या-यदा टिप्पनके यावान् भोग उत्तराषाढाया लिखितः स्यात्तदा तस्यान्त्यः पादस्तदनुमानेन ग्राह्यः, सामान्येन तु पञ्चदश घट्यः, भोगमिति, एवं सर्वा एकोनविंशतिर्घट्यः । लत्तादीति आदिशब्दादुत्पातादिचतुष्टयोपयोगैका. गलादिष्वव्यभिजिगण्यते, परं तदोत्तराषाढाश्रवणयोः पञ्चदश चतस्रश्च घटीबहिकृत्वैव पादचतुष्कं कल्पनीयं । वेधलत्ताद्यवेक्षणादन्यत्राभिजिन्नोपयुज्यते इति च सामर्थ्याल्लभ्यते ॥ अष्टाविंशते नामीशानाह
भेशास्त्वश्वि१ यमा २ नयः ३ कमलभू ४ श्चन्द्रो ५ ऽथ रुद्रो ६ ऽदिति ७ जीवो ८ ऽहिः ९ पितरो १० भगो ११ ऽयम १२ रवी १३ त्वष्टा १४ समीर १५ स्तथा । शक्राग्नी १६ अथ मित्र १७ इन्द्र १८ निती१९ वारीणि २० विश्वे२१ विधि२२ वैकुंठो२३ वसवो२४म्वुपो२५ऽजचरणो२६ हिर्बुध्न२७ पूषाभिधौ२८ ॥ ३१॥ .
व्याख्या-अश्विनौ दस्राख्यदेवौ । कमलभूर्ब्रह्मा ! अदितिर्देवमाता । जीवो गुरुः । अहिः सर्पः । भगो योनिः । अर्थमा सूर्यभेदः । त्वष्टा विश्वकर्मा । समीरो वायुः । शक्राग्नी इति विशाखाया आद्येऽर्धे इन्द्रोऽपरार्धेऽग्नि. देवता, अत एवास्या द्विदैवतसंज्ञा मिश्रसंज्ञा च । अत एवोक्तं दैवज्ञवल्लभे
Aho! Shrutgyanam