________________
. प्रथम विमर्शः
अनुराधा ननीनने स्याज्ज्येष्ठा नोययीयुभिः । स्याद्येयोभाभिभिर्मलं पूर्वाषाढा भुधाफलैः ॥ २७ ॥ भेभोजाज्युत्तराषाढा जुजेजोखाऽभिजिन्मता। श्रवणे स्युः खिखूखेखो धनिष्ठायां गगीगुगे ।। २८ ॥ गोसासीनः शतभिषक् प्राक् सेसोददि भद्रपात् । दुशझथो तराभद्रा देदोचाची तु रेवती ॥ २९ ॥
व्याख्या-एषां भावना-सामान्येन पष्टिघटीमाने चन्द्रस्य नक्षत्रभोगे पञ्चदशपञ्चदशघटीभिरेकैकः पादः, तत्र यस्य नाचुः तस्य आम्निदौ जन्माश्विन्या आयपादे, एवं सर्वत्र । द्वितीये पादे चे, तृतीये चो, तुर्थे ला। इह चुग्रहणेन चूरपिग्राह्यः स्वजातीयस्वरत्वात्, एवं चेचोग्रहणेन चैचौ; लाग्रहणेन लः, एवमग्रेऽपि । यथा भरण्या आये पादे लिली द्वितीये लुलू , तृतीये लेलै, तुर्ये लोलौ इत्यादि, एवं सर्वभेषु । नवरमाहस्तपूर्वाषा ढोत्तरभद्रपदासु ये क्रमेण घङछाः षणठाः धफढाः शझथाश्चेति द्वादश वर्णा उक्तास्तत्रैकैकोऽसौ वर्णो दशस्वरयुतो ग्रायः, कथं ? घ घा घिघी घु घू घे घै घो घौ इति । एवं कवर्गीयपञ्चमाक्षरङकारादिष्वपि । षणठा इत्यत्र च षकारो मूर्धन्यो दशस्वरयुतो ग्राह्यः, न तु कवर्गीयखकारः, तस्याभिजिच्छ्रवणयो: कथनात् । ऋ ऋ ल ल इत्येते तु प्रायो नाम्न्यादौ न स्युः, ऋषिदत्तऋषभाद्यभिधासु चेत् स्युस्तदा स्वरचक्रग्र. न्थाभिप्रायेण केवला रिरीलि लीवत् व्यञ्जनगतास्तु अकारान्ततव्यञ्जनवद्गण्यन्ते ब्रह्मदत्तश्रीधरध्रुवाद्यभिधासु ब-शी-धुरूपमेवाद्याक्षरं गण्यं । यत:
" यदि नाम्नि भवेद्वर्णः संयोगाक्षरलक्षणः ।
ग्राह्यस्तदादिमो वर्ण इत्युक्तं ब्रह्मयामले " ॥ १ ॥ विसर्गविन्द्वादिकं तु नाक्षरस्य विकारकृत् । बकारस्तु कारवज्ज्ञेयो बवयोरैक्यात् । अस्तु चवर्गीयपञ्चमवर्ण: .कवर्गीयपञ्चमङकारवद्गण्यः । ननु कारजकारणकाराः क्वापि नाम्न्यादौ न स्युरित्यतः किमर्थमुक्ताः ? उच्यते-पूर्वाचार्यानुरोधात् । न च नास्त्येवैषां फलमिति चिन्त्यं, एकाशीतिपदे सर्वतोभद्रचके
Aho! Shrutgyanam