________________
२२
आरम्भ-सिद्धिः यथाऽर्काच्छनिः सप्तमः, द्विगुणने चतुर्दश, रविवारे चतुर्दशे मुहूर्त दिवा कुलिका, रात्रौ तु त्रयोदशे। तथा चन्द्राच्छनिः षष्टः, द्विगुणने द्वादशे मुहूर्ते दिवा कुलिकः, रात्रौ स्वेकादशे इत्यादि । भाग इति यद्यपि मुहूर्तशब्दो द्विघटिकवाची तथाप्यत्र तादास्विकदिनरात्रिमानयोः पञ्चदशोऽशो द्विघटिकादूनाधिकोऽपि कुलिकस्य माने ज्ञेयः । तथाहि जघन्ययोर्दिनरात्रिमानयों: पञ्चदशोऽशो घटी 1 पल ४४ अक्षर ४८ । उत्कृष्टयोस्तु घटी २ पल १५ अक्षर १२ । एवं मध्यमानेऽप्यूह्यं । विशेषस्तु-कलिकसमये किमपि कर्म न कार्य यदुक्तं
“छिन्नं भिन्नं नष्टं अहजुष्टं पनगादिभिर्दष्टम् ।
नाशमुपयाति नियतं जातं कर्मान्यदपि तत्र" ॥ १ ॥ इति व्यवहारप्रकाशे । तथेदमपि--
" सोमे ब्राह्मः कुजे पैत्रः सुराचार्ये च राक्षसः
शुक्र ब्राह्मः शनौ रौद्रो मुहूर्ताः कुलिकोपमाः " ॥ २ ॥ __ अत्र ब्राह्म इति ब्रह्मदैवतः, एवं पैत्रादिष्वपि वाच्यं । ब्रह्मत्वादिविभागस्तु मुहूर्तानामग्रे क्षौराधिकारे वक्ष्यते । अयं च मुहूर्त कुलिकोऽहोराने द्विः स्यात् दिवा रात्रौ च । अर्धयामादयस्तु दिनपतिसाहचर्यादिवैव स्युः, न तु रात्रौ । नारचन्द्रे तु-स्ववारात् शन्यवर्धािदनाष्टांशः कुलिकस्तेनार्का दिवारेषु सप्तषट्पञ्चचतुस्मिद्वयेकसंख्या दिनाष्टांशाः कुलिकसंज्ञा इत्युक्तं । सर्वेषां चैषां क्रमात् स्थापना
___ अथदिवा दिनाष्टांशमानमेव कुलिकं नारचन्द्रोक्तं प्रमाणयन् वारेषु सुवेलाः प्राह
रवि | चन्द्र मंगल बुध दिवा
अर्धयाम कालवेला कंटक उपकुलिक
कुलिक २ मुहूर्त १ कुलिक
वाराः
शुक्र शनि
-
-
Aho! Shrutgyanam