________________
प्रथम विमर्शः
इति यतिवल्लभे । विशेषस्तु ।।
" उपचयकरस्य कुर्याद्ग्रहस्य वारे स्ववारविहितं यत् । अपचयकरग्रहदिने कृतमपि सिद्धिं न याति पुनः " ॥ १ ॥
इति लल्लः । अस्यार्थः-वक्ष्यमाणगोचरादिविधिना यो ग्रहो यदा यस्यानुकूलः स तदा तस्योपचयकर इत्युच्यते, तस्य ग्रहस्य वारे यथोक्तं कार्य कार्यम् । यस्तु तदानीं गोचरादिना प्रतिकूल: सोऽपचयकरः तस्य ग्रहस्य वारे कृतं कथमपि न सिध्यतीति। एवमग्रेऽप्युपचयकरापचयकरशब्दौ भावनीयौ । वारेषु कालहोराः प्राह
" सूर्यादौ कालवेलाऽट ८ त्रि ३ पट ६
क्ष्मा १ sध्य ४ श्व ७ दृइ २ मिता" अत्रायमाम्नायः-कालवेलाङ्का एव चतुर्युता अर्धप्रहराङ्काः स्युः, यत्र चाष्ट. भ्योऽधिकोऽङ्कः स्यात्तत्राष्टभिर्भागो देयो दिवा चतुर्घटिकानामष्टा नामेव सद्भावात्॥
कंटकोऽपि दिनाष्टांशे स्ववारान्मङ्गलावधौ। . बृहस्पत्यवधौ चोपकुलिकस्त्यज्यते परैः ॥ १९ ॥
व्याख्या-तद्दिनवारात् यत्संख्यो मङ्गलस्तत्संख्यो दिनाष्टांशः कंटकसंज्ञः । तथा चार्कादिवारेषु क्रमानियेकसप्तषट्पञ्चचतुर्थदिनांशाः कंटकसंज्ञाः बृहस्पत्यव. धाविति प्राग्वद्वयाख्येयं, तथा चार्कादिवारेषु पञ्चचतुस्त्रिद्वये कसप्तषष्ठदिनांशा उपकुलिकसंज्ञाः । परैरिति अप्रतिषिद्ध मनुमतमिति ” न्यायाद्ग्रन्थकृतोऽपि सम्मतमिदं । एवमग्रेऽपि परमतोक्तौ वाच्यं । दिनाष्टांशशब्दप्रयोगाञ्च दिनाष्टमांशमाना एते सर्वेऽपि, स च चतुर्घटिकादूनाधिकोऽपि स्यात् तथाहि-जघन्ये दिनमानेऽष्टांशे घटी ३ पल १६ अक्षर ३० । उत्कृष्टे तु घटी ४ पल १३ अक्षर ३० एवं मध्यमानेऽपि भाव्यम् ॥ कुलिकमाह
कुलिको द्विघ्नशन्यन्तमिते त्याज्यः स्ववारतः । मुहर्तेऽहि निशि व्येके भागः पश्चदशस्तु सः ॥२०॥
व्याख्या-द्विघ्नशन्यन्तेति तद्दिनवाराच्छनियत्संख्यस्तदङ्के द्विगुणिते यत् स्यात् तत्संख्ये मुहूर्ते दिबा कुलिकः, निशि तु स एवाङ्क एकोनः कार्य: ।
Aho! Shrutgyanam