________________
प्रथम विमर्शः
मेष
१-५
सिंह
वृष
२-५ कन्या
मिथुन
३-५
कर्क ४५
तुला
वृश्चिक
६-१०
७- १०
८-१०
९-१०
धन
मकर
कुंभ
मीन
११-१५
१२-१५
१३-१५
१४-१५
एवं क्रूरयुतस्य राशेस्तिथिः त्याज्येति । ततोऽत्र मेषे प्रतिपत्पञ्चमी चेति । को भावः ? मेषे रविभीमशम्यतर (म) क्रूराक्रान्ते सति प्रतिपत्पञ्चमी च क्रूरतिथित्वात्याज्या । एवं वृषे द्वितीया पञ्चमी च मिथुने तृतीया पञ्चमी च, कर्के चतुर्थी पञ्चमी च, सिंहे षष्ठी दशमी च कन्यायां सप्तमी दशमी च, तुलायामष्टमी दशमी च, वृश्चिके नवमी दशमी च, धनुयेकादशी पञ्चदशीच, मकरे द्वादशी पञ्चदशी च, कुंभे त्रयोदशी पञ्चदशी च मीने चतुर्दशी पञ्चदशी व त्याज्या: । क्रूरयुतस्येत्यत्र सावधारणं व्याख्येयं ततः केवलेन क्रूरेणाक्रान्ता मेषाद्या राशयश्चेत् तदैव तेषु यथोक्तास्तिथयः क्रराः, सौम्ययुतेन तु क्रूरेण शुभा एवेत्यर्थः । यस्य नामराशिः क्रूरेणाक्रान्तोऽस्ति तस्यपुंसः शुभकार्ये तद्र शिसंबन्धिनी सा सा तिथिस्त्याज्येत्येके । अन्ये त्वाहु:मे १ - ५ इति कोऽर्थः ? मेषे क्रूराक्रान्ते सति प्रतिपत्पञ्चम्योराद्याः पञ्चदश घट्यस्त्याज्याः । वृषे २-५ द्वितीयापञ्चम्योर्द्वितीयाः पञ्चदश घठ्यः । मिथुने ३ - ५ तृतीयापञ्चम्योस्तृतीयाः पञ्चदश घढ्यः । कर्के ४-५ चतुर्थी पञ्चम्योस्तुर्याः पञ्चदश धन्यः । एवं सिंहादिचतुष्कधन्वादिचतुष्कयोरपि ॥
तिथिनियतानि करणान्याह -
करणान्यथ शत्रुनि १ चतुष्पद २ नागानि
३ क्रमाच्च किंस्तुघ्नम् १४ ।
असित चतुर्दश्यर्धातिथ्यर्धेषु ध्रुवाणि चत्वारि ॥ ९ ॥ व्याख्या-यदा यावत्प्रमाणा तिथिस्तदा तदर्धमानानि सर्वकरणानि,
Aho! Shrutgyanam