________________
प्रथम विमर्शः
तिथिरर्कदग्धा । तथा युजि समराशौ वृष २ कर्क ४ कन्या ६ वृश्चिक ८ मकर १० मीन १२ रूपे यद्यर्कसंक्रान्तिरस्ति, तदा संक्रान्तिराश्यङ्कमध्ये " दृगिति ” द्वयं क्षेप्यं, शेषं प्राग्वत् । उदाहरणं यथा-मेषराशिः प्रथम इत्येकाको न्यस्यते १, एवमग्रेऽपि, ततस्तत्र पञ्चप्रक्षेपे जाताः षट् ६. एभ्यो द्वादश न शुध्यतीति स्थिताः षडेव, ततो मेषस्थेऽके सति षष्ठ्येव दग्धा । तुलाराशिः सप्तमः ७, पञ्चयोगे द्वादश १२, अत्र द्वादश शुध्यन्ति परं शेषं न तिष्ठति, ततस्तुलास्थेऽर्के द्वादश्येव दग्धा । धनराशिनवमः ९, पञ्चयोगे चतुर्दश १४, एभ्यो द्वादशशोधने स्थितौ द्वाविति धनुःस्थे द्वितीया दग्धा । तथा वृषराशिद्वितीयः २, हियोगेचत्वारः ४ एभ्यो द्वादश न शुध्यन्तीति वृषस्थेऽर्के चतुर्युव दग्धा । मकरराशिदशमः १०, द्वियोगे द्वादश १२, एभ्यो द्वादश शुध्यन्ति, परं शेषाभावान्मकरस्थेऽर्के द्वादश्येव दग्धा । मीनराशिदश: १२, द्वियोगे चतुर्दश, एभ्यो द्वादशशोधने स्थितौ द्वाविति मीनस्थेऽर्के द्वितीया दग्धा । एवं शेषेष्वपि भाव्यं । सा च तिथिस्तं संक्रान्तिमासं यावत्याज्या ।
इदमेव मुखार्थ व्यक्तमाहदग्धार्केण धनुर्मीने २ वृषकुंभे ४ ऽजकार्कणि ६ । द्वन्द्वकन्ये ८ मृगेन्द्रालौ १० तुलैणे १२ द्वयादियुतिथिः॥७
व्याख्या-द्वन्द्वं मिथुनं । अलिवृश्चिकः । एणो मकरः । द्वयादीत्यादि द्वितीयातः प्रभृति द्वादशी यावत्समा तिथिः । विशेषस्तु"कुंभधणे २ अजमिहुणे ४ तुलसीहे ६ मयरमीण ८ विसकके १० । विच्छियकन्नासु १२ कमा बीआई समतिही उ ससिदड्ढा ॥ २ ॥
___ " अत्र ससिदड्ड त्ति " यदा कुंभे धनुषि वा चन्द्रस्तदा द्वितीया चन्द्रदग्धेत्याद्यर्थः । इदं हर्षप्रकाशे । स्थापना
Aho! Shrutgyanam