________________
आरम्भ-सिद्धिः
व्याख्या - यत्र शेषे सति लग्नं शोधयितुं न पार्यते तस्माच्छेषात्, खगुणेति त्रिंशद्गुणीकृतादशुद्धलग्न मानेन भागे यल्लभ्यतेऽशकलाविकलारूपं तत्सूर्ये दवा ततोऽयनांशाः कर्ण्यन्ते, शेषं स्फुटमिष्टकाले लग्नं नवांशश्च i
२५४
इदमाचप्रकारे भाव्यते - यथा घट्यः १३ पलानि ३२, गणो धृत्वा पलीकृतो जातं ८१२ पलानि, एभ्योऽर्कभोग्यपळाङ्कस्य २४२ रूपस्य शोधने स्थितं ५७० । अथ सायनस्फुटार्क १-१-३१-३० रूपे वृषराशेः शेवं २८ भागाः २२ कलाः ३० विकलारूपं भागादिभोग्यं क्षिप्तं, जातोऽर्कः २०-०-० । तदनु पलीकृतकालात् ५५७ रूपात् अर्काक्रान्तवृपराइयग्रेतनस्य मिथुनस्य मानं ३०५ रूपं शुद्धमित्येक शिक्षेपे जातोऽर्की ३-०-०-० | शेषस्य २६५ रूपस्य मध्यात् कर्कस्य मानं ३४१ रूपं न शुध्यतीत्यतः शेषं ३० गुणने जातं ७९५० अशुद्धस्य कर्कस्य मानेन ३४१ भागे लब्धं त्रिस्थं फलं भागाः २३ कलाः १८ विकलाः ४९ | इदमर्के योजितं जातं ३-२३ - १८-४९ अस्मादयनांशाः भाग १५ कला३४रूपाः शोध्यन्ते, जात लग्नं ३-७-४४-४९ । अत्र कर्कस्य सप्त ७ भागाः ४४ कलाः ४९ विकलाश्च भुक्ता इत्यागतं । एकैकस्मिँश्च नवांरी त्रिंशांशत्रयं तुर्यत्रिंशांशस्य विंशतिकाश्च स्युरिति षड्भर्भागै: ४० कलाभिश्च नवांशद्वयगतं, उपरि चैको भागः कलासप्तकं च प्रवृत्त्यर्थं दत्ते अभूतां ते स्त इति ज्ञेयं । द्वित्रकलाविशेषे च न दोषः, लग्नफलाना मतिसूक्ष्मत्वात् । विशेषस्तु स्थूरवृत्याऽह्नि काला लग्नांशानयनमेवं---
“ अष्टांशं प्रति धीवेदाः ४५ सङ्क्रान्तेर्गतवासराः । तदैक्यादभ्ररामा३०प्तं लग्नमाकान्तराशितः ॥ १ ॥ शेषे षष्टिते भक्ते द्विशत्या लब्धमंशकः । होराद्युक्ताङ्कभक्तेन होराद्यमपि लभ्यते ॥ २ ॥ "
,
व्याख्या- -अशो यामस्तं प्रति ४५ पलानि धुत्रकः । तत आद्ये या मे पूर्णे ४५ द्वितीये ९० एवं त्रको पत्तिः । यदा च यावद्दिनमानं तदा तदेव चतुर्भक्तमेकैकग्राममानं । ततो याममानघटीविभक्त ४५ घुत्रकाद्यल्लभ्यते तदेव घटीं घटीं प्रति धुत्रको लेख्यः । यथाऽत्र मेषेऽर्कभवनदि नादनु सप्तदशेऽह्नि त्रिभागो नाष्टघटक यामेषु घटीं घटीं प्रति किञ्चिदून षट्पलानि ध्रुवक राशि केन समेति । कथं ? तद्दिनसत्कं ७ घट्यः ४२ पलानि चेत्येतद्याममानं पलीकृतं जातं ४६२ । ततो यदि ४६२ पलै: ४५ पलानि ध्रुवकः स्यात्तदा १ वटी सत्क ६० पलैः किं स्यादिति राशित्रयस्थापना- ४६२-४५-६० मध्यराशिरन्त्येन गुणितः जातं २००० । आधराशिना भागे लब्धं पल ५ अक्षर ५०, यद्यपि
Aho ! Shrutgyanam
,