________________
पञ्चम विमर्श:
२५३
व्याख्या - अथेति तदनन्तरं । तदंशकादिति दृष्टनवांशादवतने लग्झस्य भुक्ते उदयप्रवृत्योस्त्रिभागौ दद्यादित्यन्वयः । अयमर्थः - अधिकृत नवांशादर्वाग् यावन्मान्नं लग्नस्य भुक्तं तत् स्पष्टीकृत्य तन्मध्ये तल्लमस्य त्रिभागं तन्नवांशस्य च त्रिभागं प्रवृत्यंशापराद्धं क्षिपेत, ततस्तल्लमभुक्तं पूर्वानीतमर्क भोग्य मन्तराललझपलमानं च मील्यते, यत्स्यात्तावद्भिः पलैः सूर्योदयानुइष्टलग्नस्येष्टोऽंशः स्यात् ॥
यथाऽत्र कर्कस्य मानं ३४१, नवभिर्भागे लब्धं पानि ३८, इदमेकनवांशमानं, इष्टस्य तृतीयस्य नवांशस्यार्वाक् च द्वौ नवांशौ स्तः, तेन ३८ द्विगुणाः, जातं पलानि ७६, इदं तल्लग्नं भुक्तं, ततोऽत्र कर्कमानस्य ३४१ त्रिभिर्भागे लब्धं पलानि ११४, अयमुदयभ्यंशो लग्नमुक्ताय ७६ पलरूपस्य मध्ये क्षिप्यते जातं १९० | तदनु यो नवांशो दत्तोऽस्ति तस्य यन्मानं ३८ पलरूपं, तस्य त्रिभागः पल १२ रूपः सोऽपि तन्मध्ये क्षिप्तः, जातं पलानि २०२ । रविभोग्यं च पलानि ३० । तथार्काक्रान्तराशेरिष्टलग्नस्य चान्तराले वृषमिथुनौ स्तः, तयोर्मानं २५६-३०५ । सर्वेषां स्थापना- | २०२-३०-२५६-३०५ मीलने पलानि ७९३, एषां ६० भागे लब्धं घट्यः १३ पलानि १३ । एतास्कालेनादयादनु कन्यांशागमः । करणान्तरत्वात् पलेषु वैसदृशं न दोषाय । एवमन्यत्रापि भावनीयम् ॥ ७०
एवं लग्नास्कालानयनमुक्तं, अथ प्रत्ययार्थं वृत्तद्वयेन काला लग्नमानयतित्यक्त्वाऽर्कभोग्यं च पलात्मकालाड्रागादिभोग्यं तरणौ निदध्यात् ।
क्रमेण शेषानुदयान् विशोध्य,
राशीन्न्यसेत्तत्प्रमिताँश्च भानौ ॥ ७१ ॥
व्याख्या— कश्चिद्विवक्षितकालं घटीपलमानमुक्त्वा तदानीं कतमलग्नांशाद्यस्तीति पृच्छेत्तदा तदुक्तं घट्यादि सर्वं पली कार्य । ततस्तत्र यावत्पलमानमर्कभोग्यं स्यात्तस्मात्पली कृतकालात् शोध्यं, भागादीति सायनस्फुटार्केण यो राशिराक्रान्तस्तस्य शेषलवकलाविकलारूपं सूर्यभोग्यं तरणाविति सायनस्फुटार्के एव न्यस्यं स राशि: पूर्णीकृत्य लेख्य इत्यर्थः । ततस्तस्मात् पली कृतकालादकssकान्तरायतनानि पलरूपाणि लग्नानि यावन्ति शुध्यन्ति तावन्ति संशोध्य तावद्वाशीनामङ्कोऽर्के देयः ॥
S
शेषादध खगुण ३० गुणादविशुद्धोदयहृतादवाप्तेन । भागादिना सनाथो दिननाथो निरयनांशको लग्नम् ॥ ७२ ॥
Shrutgyanam