________________
आरम्भ-सिद्धिः
" द्वयोर्नवांशयोः शुद्धिः प्रतिष्ठायां विलोक्यते ।
आद्येऽधिवासना बिबे द्वितीये च शलाकिका ॥ १ ॥ संस्थाप्य लग्नमानं गुण्येन्मध्यनवांशकैः । नवभिस्तु हृते भागे लब्धेऽन्तरपलागमः ॥ २ ॥"
अत्र कल्पितमुदाहरणमात्रं, यथा-भत्रैव कर्कलग्ने प्रतिष्ठायां तृतीयः कन्यानवांशोऽष्टमः कुम्भ नवांशच गृह्यमाणो स्तः । ततश्च कुम्भनवांशादर्वाक कन्यादयो नवांशाः पञ्च मन्ति, अतः कर्कमानं ३४। पञ्चभिर्गुगयेत् , जातं १.७०५, अस्य नवभिर्भागे लब्ध १८९, इदश्च तृतीयकन्यानवांशग्रहणाय स्पष्टीकृते १३ घटी ३२ पल रूपे काले क्षिप्यते, जातं घट्यः १६ पलानी ४१, इयति काले गते कुम्भनवांशवेला ॥
.. अथ लग्नांशसमयस्पष्टनायाऽयनांश निरपेक्षं प्रकारमाह, यद्वासङ्क्रान्तिराशेर्गतनाडिकाघ्ने, माने दिवा निस्यथ सप्तमस्य। सान्तिभोगेन हृते तदीययंशान्विते शेषमिहाभोग्यम्॥ - व्याख्या-दिनलग्ने सूर्याक्रान्तराशेर्मानं सङ्क्रान्तिसमयात् प्रभृति लग्नसमयादर्वाग् या घट्यो गतास्ताभिर्गुण्यते । रात्रिलग्ने तु सति सूर्याक्रान्ताचः सप्तमो राशिस्तन्मानं ताभिर्गुण्यते । ततः स्वान्तरभुक्त्या भज्यते । यल्लब्धं तन्मध्ये प्रस्तुतराशेस्त्रिभागः पृथक्कृत्य क्षिप्यते । ततस्तथा कृते सति यस्स्यात्तदर्क भुक्तं सूर्याकान्तराशिमध्यात् पात्यते; यच्छेषं तदभोग्यम् । - यथाऽत्रैव दिनलग्ने सङ्क्रान्तिराशेस्तदानीं सूर्याक्रान्तराशेर्मेषस्य मानं २२५, तत्सङ्क्रान्तिसमयादनु लग्नतोऽर्वाग या गता घव्यः ९९४, तामिर्गुणितं जातं २२३६५० । अस्य स्वान्तरभुक्त्या १८५७ रूपया भागे लब्ध पलानि १२.। ततश्चार्काकान्तराशेर्मानस्य त्रिभिर्भागे यल्लभ्यते तन्मध्ये क्षेप्यम् । यथाऽत्र मेषमानस्य २२५ त्रिभिर्भागे लब्धं पलानि ७५ । इदं प्रागानीत १२० मध्ये भितं जातं १९५, इदं सूर्यभुक्तम् । सूर्याक्रान्तराशेर्मेषस्य मानात् २२५ रूपात् पास्यते, जातं ३० पलानि, इदमर्कभोग्यं, एवं दिनलग्ने कार्यम् । . रात्रिलग्ने स्वकाकान्तराशितः सप्तमस्य राशेः सूर्यभुक्तघटीगुणनतदन्तरभुक्ति भजनाचं सर्वमप्यर्काक्रान्तराशिवत् कार्यम् ॥
. . मुक्तेऽथ लग्नस्य तदंसकाच, दद्यात्रिभागावुदयप्रवृत्योः । तल्लग्नभुक्तश्च तथा भोग्य,कालोऽन्तरालोदययुक्पलात्मा।
Aho! Shrutgyanam