________________
२५१
पञ्चम विमर्शः व्याख्या-लग्ने यो नवांश इष्टोऽस्ति तस्मादवांग येऽशास्ते दशगुणीकृत्य निभिर्भज्यन्ते यल्लब्धमंशकलाविकलारूपं त्रिस्थं फलं स्यात् । लग्नमिति तदेव लग्नं ज्ञेयम् । तच्च सायनमूर्वमतीतराशियुतं च कृत्वा एकः प्रवृत्त्यंशोऽधिकृतनवांशसत्कत्रिभागरूपो मध्ये देयः । धनुरंशे तु प्रतिष्ठाविवा हयोर्गमाणे नवांशत्रिभगस्याधं क्षिपेत् , तत्र धनुरंशपूर्धिस्यैवेष्टत्वात् । ततः एवं कृते यस्स्यात्तेन भुक्तन लवकलाविकलारूपेणेष्टलनमानं पल रूपं त्रिय॑स्य क्रमाद्गुण्यते । प्राग्वत् षष्टया ऊर्व क्षेपे उपरि योऽङ्कः स्यात्तस्य त्रिंशता भागे यल्लब्धं पलाक्षररूपं तदिष्टलग्नभुकमुच्यते। तन्मध्ये पूर्वानीतमर्कभोग्यं क्षिप्यते। तथाऽर्काकान्तराशे रिष्टलग्नस्य चान्तराले यावन्ति लनानि स्युस्तेषां मानानि पलरूपाणि तन्मध्ये क्षिप्यन्ते । एवं कृते योऽङ्कः स्यात्तावद्भिः पलेरौंदयादनु इष्टलसस्य इष्टोऽशः समेतीति ॥
____ यथाऽत्र कर्कलग्नस्य तृतीये कन्यानवांशे गृह्यमाणे इष्टानवांशादर्वाग्भुक्तनवांशी द्वौ दशगुणौ २० कृत्वा त्रिभिर्भक्तो लब्धास्त्रिंशांशाः षट, शेषं २/३ । कोऽर्थः ? यादशैत्रिभिस्त्रिंशांशः स्यात्तादशौ द्वावंशी । एतावतांशाः षट् कलाश्च चत्वारिंशदिति स्यात् , एकैकस्य त्रिंशांशस्य षष्टि कलानिष्पनत्वात् , दाभ्यां त्रिभागाभ्यां स्थिताभ्यां चस्वारिंशस्कलाः स्युरिति भावः। एतच्च लग्नं सायनं क्रियते, भयनांशाः १५ कलाश्च ३४ मील्यन्ते । तथाऽतीता गशयो ये स्युस्तेषामको राशिस्थाने दीयते, स चात्र त्रिक एव, कर्कलमस्य गृह्यमाणस्वात् । तथांशाङ्क. मध्ये एकः प्रवृत्यशो दीयते कलासप्तकं च, यत एकैकस्मिन्नवांशे त्रयस्त्रिंशांशाः कलाविंशतिश्च स्युः, तत्रिभागे कृते यथोक्तमेवायातीति, ततो जातं त्रयो राशयोऽतीताः, वर्तमानकर्कलग्नस्य चांशाः २३ कला: २१ एतावद् भुकं, गतराशिमिश्च नास्त्यत्रोपयोगः, ततस्तद्भुक्केन वर्तमानकर्कलमभुक्तेन २३ भाग २१ कलारूपेण तदुदयोऽत्र प्रस्तावात् कर्कोदयः ३४१ पल रूपो द्विय॑स्य गुणितः, यदि विकलाः स्युस्खदा त्रियस्य तृतीयस्थाने विकलाभिरपि गुण्यते, इह तु ता न सन्तीति द्विरेव न्यास उचे, जातं क्रमात् ७४४३-७१६१, अधः ६० भागे लब्धं ११९, अस्योपरि क्षेपे जातमुपरि ७९६२, अस्य ३० मागे लब्धं पलानि । २६५ शेष १२, तस्य ६. गुणने ३० भागे च लम् अक्षराणि २४, इदं २६५ पल २४ अक्षररूपं कर्कलग्नभुक्तं । रविभोग्ययुक्तमन्तराले लग्नपलप्रमाणरूपान्तरोदययुतं च क्रियते, यथाऽत्र रविभोग्यं पलानि २४२, भान्तरोदयम्तु मिथुनमेव, तन्मानं ३.५, त्रयाणां मीलने जातं ८१२ सूर्योदयादियस्पलैः, कोऽर्थः ? १३ घटीभिः ३२ पलैश्च गतैः कर्कस्य कन्यांशः समेतीति । विशेषस्तु
- Aho! Shrutgyanam