________________
२५०
आरम्भ-सिद्धिः
विकलाश्च वर्धन्ते इत्ययनांशवृद्धिरिष्टा, पुनस्तेनैव क्रमेण हीयमानास्ते तावद्भिरेवा १४०४ ग्दै निलेपीभविष्यन्ति, एवं पुन पुनस्तवृद्धिहानी भाव्ये, एषां च लग्ने क्रान्तिसाम्ये चरानयने चोपयोगः । उक्तश्च
" अयनांशाः सदा देया लग्ने क्रान्तौ चरागमे ।"
इष्टकाले चायनांशानयनाय करणमिदम्" आषाढे विक्रम नन्दसप्तेषू ५७९ नं त्रिधा कु १ भू' १। नखै २० निघ्नं भजेत् षष्टया लब्धे स्युरयनांशकाः ॥ १ ॥"
व्याख्या-चत्रादिः किल शाकाब्दः स पञ्चविंशोत्तरशत।१५ क्षेपे वैक्र. माब्दः स्यात् , स चाषाढादिः सविक्रमाब्दः स्थाप्यते, स चात्र १५१२ रूपः, भस्मात् ५७९ कर्षणे जातं ९३३, इदं त्रिय॑स्य क्रमात् १-१-२० अर्गुण्यते, षष्टया षष्टया भक्त्वा भक्त्वा उपर्युपरि चटापने जातं अंशाः १५, कलाः ५३, विकलाः ४४। इदं १५१२ वर्षेऽयनांशपरिमाणं सूक्ष्मेक्षिकयाऽऽयाति. परं प्रत्यब्दमेकैव कला किञ्चिदधिका वर्धते इति स्थूलमानमेव बहुज्योतिर्विदा सम्मतं, ततोऽस्माभिरपि तदेवात्राहतम् । तथा च १५१२ वर्षे १५ अंशाः ३५ कला. श्वायान्ति, इदं स्फुटाकै शितं जातं भागा एकत्रिंशत् ३१ कलाः ३७ विकलाः ३० । ततो राशिस्त्रिंशदंशमानस्वादयनांशापेक्षयाऽर्केगाखिलोऽपि मेषगशिर्भुक्तः वृषस्य चैकोऽशः ३७ कला: ३० विकलाश्च भुक्ता इत्यागतं, स्थापना १-१-३७-३०, अयं सायनोऽर्कः ।
अथानोदयो वृपस्तत्पलमानं २५६ त्रिः स्थाप्यते, यथा-२५६, २५६, २५६, ततः सूर्यः भुक्तादंशादेरपेक्षया शेषमंशाग्रुत्पाद्यते, तश्चेदं-अंशाः २८, कलाः २२, विकलाः ३० । एतैः क्रमारत्रयोऽपि राशयो गुण्यन्ते, जातं ७१६८-५६३२-७६८० । क्रमात् ६० भक्त्वा ऊर्ध्वमूर्ध्व क्षेपे जातमुपरि ७२६४, अस्य ३० भागे लब्धं पलानि २४२, इदमर्कभोग्यमग्रे उपयोक्ष्यते इत्यतः स्थाप्यम् ॥ ६७ ॥ अथेष्टलनेभुक्तानयनेनेष्टसमयं स्फुटीकर्तुमाहइष्टाद्भुक्तनवांशकैर्दशगुणैस्च्याप्तैलवाद्यं फलं. लग्नं मायनमूर्ध्वराशिसहितं सैकप्रवृत्त्यंशकम् । तद्भुक्तेन लबादिना तदुदयः क्षुण्णो हृतस्त्रिंशता, भास्वद्भोग्यवदान्तरोदययुतः कालः पलात्मा भवेत॥६८॥
, कुभूनरवैरिति समस्त ज्ञेयम् ।
Ano! Shrutgyanam