________________
पञ्चम विमर्शः
चैवम रित तथापि किञ्चिदूनत्वात् षट् पलानि पूर्णान्येव विवक्ष्यन्ते, ततोऽत्र १३ घट्यः षड्गुणाः, जातं ७८ । उपरिस्थ ३२ पलापेक्षया पलत्रये क्षिप्ते जात ८१, सङ्क्रान्तर्गत दिना: १६ मीलने ९७, अस्य ३० भागे लब्धं ३ शेषं ७, लग्नत्रयं गतं, तुर्यस्य कर्कलग्नस्य त्रिंशांशसप्तकं चेत्यर्थः । नवांशानिनीषायां तु ७ षष्टया हता जातं ४२०, द्विशत्या २०० भागे लब्धं द्वौ शेषं २०. नवांशद्वयं गतं तृतीयस्य २० कलाश्च गता इत्यर्थः। होरादीति षष्टिहताङ्कस्य होराघकैः ९००-६००-१५०-६० भागे क्रमात् होराद्रेष्काणद्वादशांशत्रिंशांशा अपि लभ्यन्ते । नवांशस्य तु प्रभुतया मुख्यत्वात् पृथगुक्तिः। अनेन विधिना कलावध्येव व्यक्तीस्थान तु विकलाः, अत एव स्थूरोऽयं विधिरित्यूचे । ननु च सर्वत्र नवांशस्यैव चेत् प्रभुता तदा किमर्थं लग्नानां ग्रहाणां च त्रिंशांशा व्यक्तीक्रियन्ते ? उच्यते-'त्रिवर्धाप करमध्यस्थौ" इत्यत्र लग्नेन्द्वोः पञ्चदशत्रिंशांशमध्यस्थ रग्रहकर्तरीविचारः । तथा सति "दर्शने यदि स्यादंशद्वादशकमध्यगः क्रूरः" इत्यत्र लग्नेन्द्वोः ऋरग्रह दृष्टिविचार इत्याद्यक्त एव त्रिंशांशानामुपयोगः । तथा लग्ने षडवर्गः करग्रहसत्कः सौम्य ग्रहसत्को वा, अयं ग्रहः स्त्रवर्गस्थोऽन्यवर्गस्थो वा इत्यादि चिन्तायामपि । ननु भवति तर्हि कलादिव्यकीकृतिः क्वोपयोक्ष्यते ? उच्यते-यदा कलाराशिः पश्यपेक्षयाऽर्धाधिक: स्यात्तदा रूपं गृहीत्वा त्रिंशांशेषु दीयते । एवं विकलानामर्धाधिके कलासु रूपं देय मित्यादि, जातकादौ चांशायु:-पिण्डायुर्दशान्तर्दशाद्यानयने कलादिव्यक्तर्विशिष्योपयोग इत्यलं प्रसङ्गेन । एवं दिवा लग्नांशानयनमुक्तं । " रात्री तु मूनि यद्धिष्ण्यं तस्मान्नक्षत्रमष्टमम् ।
उदेति पूर्वस्यां तेन लग्नोदयविनिर्णयः ॥ १ ॥" तथा रेवत्युदयादन्वश्विन्युदयं यावदश्विन्या एव चत्वारः पादा उद्गच्छन्ति, एवमश्विन्युदयादनु भरण्युदयं यावद्भरण्या एव चत्वारः पादा उद्गच्छन्तीत्येवं शिरःस्थभस्य पादकल्पनयोदयी नवांशोऽपि निर्धार्य: । इत्युक्ता लग्नस्फुटीकृतिः।
अथ दिवा कालज्ञानं प्रायः शकुच्छायाऽऽयत्तमित्यतः कालत छाया, छायातः कालश्चानीय दर्यते । तत्रादौ तावत्सूक्ष्मदिनमानानयनमेवम्"दत्तायनांशा रविभुक्तभागाः, फलेन गुण्या दिनवृद्धिहान्योः । षष्याभिलब्धं घटिकाद्यमेतत् , स्यादाढ्य द्य)नूनं प्रथमद्यमानात् ॥१॥”
व्याख्या-इष्टेऽहन्यर्केण स्वाक्रान्तराशेर्यावन्तस्त्रिंशांशा भुक्ताः स्युस्तन्मध्ये तद्वर्षीयायनांशान क्षिप्त्वा उपर्यागतराशिसत्केन दिनवृद्धिहानिफलेन कर्केत्यादिना पूर्वोक्तेन सगुण्य षष्टया भागे यल्लभ्यते तद्घव्यादिकं रसद्विनाड्य इत्याद्युक्तस्य मुख्याहमानस्य मध्ये क्षेप्यं मृगादिषट्कस्थेऽर्के, कर्कादिषट्कस्थे स्वकें
Aho! Shrutgyanam