________________
पञ्चम विमशः
शत्रिंशांशेषु । उदयशुद्धये, इत्यत्र तादर्थे चतुर्थी, एवमग्रेऽपि, तत उदयिनवांशेशः स्वस्थानस्थो लग्नं पश्येत्तदोदयशुद्धिः स्यात, लग्नवीक्षणे तरस्थस्य नवांशस्यापि तदपृथग्भूतत्वेन वीक्षणभवनादित्यर्थः । अंशाधिप इत्युपलक्षणं, तेन पृच्छादिलग्नेषु लग्नेश एव लग्नं पश्यन् विलोक्यते, "शिरः शून्यं तदा लग्नं यदा स्वामी न पश्यति" इत्युक्तेः । अंशास्तेश इति, अस्तं सप्तमं ततो लग्ने यदाशिना मा नवांशस्तस्मादाशितो यदस्तं सप्तमं स्थानं तदीशचेल्लग्नापेक्षयाऽस्तं सप्तमं गृहं पश्येत्तदाऽस्तशुद्धिः । इयमत्र भावना-किल कर्कलग्नस्य तृतीये कन्यानवांशे गृह्यमाणे चेन्नवांशराशिका यास्थानासप्तमस्थानस्थस्य मीनराशेः स्वामी गुरुमेघवृश्चिकवृषकन्यातुलमिथुनकाणामन्यतमस्थः कर्कलग्नालप्तममकरराशिं पश्येत्तदा कर्कलग्ने कन्यानवांशेऽ'तशुद्धिः । पवमन्यत्रापि भाव्या (व्यं)। अन्ये स्वाहुः-" लग्ननवांशसमनामा गशिर्यत्र तत्रस्थः स्वेशदृष्टः स्यात्तदोदयशुद्धिः स्यात्"। श्रीहरिभद्रसूरयोऽप्याहुः"उदयत्थसुद्धिमिहि भणामि उदओ नवंसगो इत्थ । तम्मि अ लग्गविइण्णे सनाह दिठे उदयसुद्धी ॥ १ ॥"
अस्योदाहरणं यथा-मिथुनलग्ने मीन नवांशे गृह्यमाणे तदीशजीवेन मीनराशौ दृष्टे सत्युदयशुद्धिः, एवं सर्वत्र । स्थापना यथा
M EME
nemum
maria
व्यवहारप्रकाशे स्वेतस्प्रकारद्वयमपि बहु मेने । तथाहि"अंशाधिपतेदृर्घ्यदांशशास्तपस्य भागास्ते१ । भागपतेलग्ने वाऽप्यंशास्तपतेविलग्नास्ते२ ॥ १ ॥ उदयास्तस्य च यदि दृष्टेः शुद्धिर्भवेद्विलग्नेऽत्र ।। कान्ताया मङ्गल्यान्यतनूनि तनौ प्रजायन्ते ॥ २ ॥"
यतिवल्लभे स्वेवमप्यस्ति" उदयास्तांशतुल्यारम्यराश्योरपि विलोकने । योगेऽथवा परे प्राहुरुदयास्तविशुद्धताम् ॥ १॥" विलोकने इति, स्वस्वामिभ्यामिति शेषः । योगे इति, उदयास्तांशाख्य
Aho! Shrutgyanam